यमभयनिवारणस्तोत्रम्

अतिभीषण कटुभाषण यम किङ्कर पटली
कृतताडन परिपीडन मरणागमसमये।
उमया सह मम चेतसि यमशासन निवसन्
शिव शङ्कर शिव शङ्कर हर मे हर दुरितम्॥