Stotra · Devī
स्वधास्तोत्रम्
Svadhāstotram
Script
श्रीनारायण उवाच
स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः।
मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत्॥२७॥
स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत्।
श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य च॥२८॥
श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः।
स लभेच्छ्राद्धसम्भूतं फलमेव न संशयः॥२९॥
स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः।
प्रियां विनीतां स लभेत्साध्वीं पुत्रगुणान्विताम्॥३०॥
पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी।
श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा॥३१॥
नित्या त्वं सत्यरूपासि पुण्यरूपासि सुव्रते।
आविर्भावतिरोभावौ सृष्टौ च प्रलये तव॥३२॥
ॐ स्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा।
निरूपिताश्चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः॥३३॥
कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः।
इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि॥३४॥
तस्थौ च सहसा सद्यः स्वधा साविर्बभूव ह।
तदा पितृभ्यः प्रददौ तामेव कमलाननाम्॥३५॥
तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिताः।
स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः।
स स्नातः सर्वतीर्थेषु वाञ्छितं फलमाप्नुयात्॥३६॥
॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे स्वधोपाख्यानवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः॥
❀