रोगनिवारणश्लोकाः
ममोपात्त- + श्री-परमेश्वर-प्रीत्यर्थं ज्वर-औपसर्गिकादि-नानाविध-साङ्क्रामिक-रोगाणाम् उन्मूलनार्थम् आरोग्य-प्राप्त्यर्थम् अस्मद्देशीयानां विदेशीयानां चापि सर्वेषां व्याधि-भय-निवृत्त्यर्थं सर्वलोकक्षेमार्थं रोगनिवारक-भगवन्नाम-स्तोत्र-पारायणं करिष्ये ।
क्रिमि-नाशन-मन्त्राः
(तैत्तिरीयारण्यकम्/प्रपाठकः – ४/अनुवाकाः ३६--४०)
अत्रि॑णा त्वा क्रिमे हन्मि।
कण्वे॑न ज॒मद॑ग्निना।
वि॒श्वाव॑सो॒र्ब्रह्म॑णा ह॒तः।
क्रिमी॑णा॒ꣳ॒ राजा᳚।
अप्ये॑षाꣴ स्थ॒पति॑र्ह॒तः।
अथो॑ मा॒ताऽथो॑ पि॒ता।
अथो᳚ स्थू॒रा अथो᳚ क्षु॒द्राः।
अथो॑ कृ॒ष्णा अथो᳚ श्वे॒ताः।
अथो॑ आ॒शाति॑का ह॒ताः।
श्वे॒ताभिः॑ स॒ह सर्वे॑ ह॒ताः॥७७॥
आह॒राव॑द्य।
शृ॒तस्य॑ ह॒विषो॒ यथा᳚।
तथ्स॒त्यम्।
यद॒मुं य॒मस्य॒ जम्भ॑योः।
आद॑धामि॒ तथा॒ हि तत्।
खण्फण्म्रसि॑॥७८॥
ब्रह्म॑णा त्वा शपामि।
ब्रह्म॑णस्त्वा श॒पथे॑न शपामि।
घो॒रेण॑ त्वा॒ भृगू॑णां॒ चक्षु॑षा॒ प्रेक्षे᳚।
रौ॒द्रेण॒ त्वाङ्गि॑रसां॒ मन॑सा ध्यायामि।
अ॒घस्य॑ त्वा॒ धार॑या विद्ध्यामि।
अध॑रो॒ मत्प॑द्यस्वासौ॥७९॥
उत्तु॑द शिमिजावरि।
तल्पे॑जे॒ तल्प॒ उत्तु॑द।
गि॒रीꣳ रनु॒ प्रवे॑शय।
मरी॑ची॒रुप॒ सन्नु॑द।
याव॑दि॒तः पु॒रस्ता॑दु॒दया॑ति॒ सूर्यः॑।
ताव॑दि॒तो॑ऽमुं ना॑शय।
यो᳚ऽस्मान्द्वेष्टि॑।
यं च॑ व॒यं द्वि॒ष्मः॥८०॥
भूर्भुवः॒ सुवो॒ भूर्भुवः॒ सुवो॒ भूर्भुवः॒ सुवः॑।
भुवो᳚ऽद्धायि॒ भुवो᳚ऽद्धायि॒ भुवो᳚ऽद्धायि।
नृ॒म्णायि नृ॒म्णं नृ॒म्णायि नृ॒म्णं नृ॒म्णायि नृ॒म्णम्।
नि॒धाय्यो॑ वायि नि॒धाय्यो॑ वायि नि॒धाय्यो॑ वायि।
ए अ॒स्मे अ॒स्मे।
सुव॒र्न ज्योतीः᳚॥८१॥