कार्तवीर्यार्जुन-द्वादशनामस्तोत्रम्
ॐ श्रीं क्रों कार्तवीर्यार्जुनाय नमः।
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्।
तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते॥१॥
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली।
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः॥२॥
रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः।
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत्॥३॥
सम्पदस्तत्र जायन्ते जनस्तत्र वशं गतः।
आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम्॥४॥
सहस्रबाहुसशरं महितं सचापं
रक्ताम्बरं रक्तकिरीटकुण्डलम्।
चोरादि-दुष्टभय-नाशम् इष्टदं तं
ध्यायेन्महाबल-विजृम्भित-कार्तवीर्यम्॥५॥
यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत्।
यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान्॥६॥
हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम्।
वाञ्चितार्थप्रदं नृणां स्वराज्यं सुकृतं यदि॥७॥
॥इति श्री-कार्तवीर्यार्जुन-द्वादशनाम-स्तोत्रम्॥