अवैधव्यप्रार्थनास्तोत्रम्

ओङ्कारपूर्विके देवि वीणापुस्तकधारिणि।
वेदमातर्नमस्तुभ्यं अवैधव्यं प्रयच्छ मे॥
पतिव्रते महाभागे भर्तुश्च प्रियवादिनि।
अवैधव्यं च सौभाग्यं देहि त्वं मम सुव्रते।
पुत्रान् पौत्रांश्च सौख्यं च सौमङ्गल्यं च देहि मे॥