सूर्यार्यास्तोत्रम्
शुकतुण्डच्छवि-सवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः।
मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः॥१॥
यस्योदयास्तसमये सुरमुकुट-निघृष्ट-चरणकमलोऽपि।
कुरुतेञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः॥२॥
उदयाचल-तिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय।
अम्बर-चूडामणये दिग्वनिताकर्णपूराय॥३॥
जयति जनानन्दकरः करनिकर-निरस्त-तिमिर-सङ्घातः।
लोकालोकालोकः कमलारुणमण्डलः सूर्यः॥४॥
प्रतिबोधित-कमलवनः कृतघटनश्चक्रवाकमिथुनानाम्।
दर्शित-समस्तभुवनः परहितनिरतो रविः सदा जयति॥५॥
अपनयतु सकलकलिकृतमलपटलं सप्रतप्तकनकाभः।
अरविन्द-वृन्द-विघटन-पटुतरकिरणोत्करः सविता॥६॥
उदयाद्रि-चारुचामरहरित हयखुरपरिहितरेणुराग।
हरितहय हरितपरिकर गगनाङ्गनदीपक नमस्तेऽस्तु॥७॥
उदितवति त्वयि विकसति मुकुलीयति समस्त-मस्तमितबिम्बे।
न ह्यन्यस्मिन्दिनकर सकलं कमलायते भुवनम्॥८॥
जयति रविरुदयसमये बालातपः कनकसन्निभो यस्य।
कुसुमाञ्जलिरिव जलधौ तरन्ति रथसप्तयः सप्त॥९॥
आर्याः साम्बपुरे सप्त आकाशात्पतिता भुवि।
यस्य कण्ठे गृहे वाऽपि न स लक्ष्म्या वियुज्यते॥१०॥
आर्याः सप्त सदा यस्तु सप्तम्यां सप्तधा जपेत्।
तस्य गेहं च देहं च पद्मा सत्यं न मुञ्चति॥११॥
निधिरेश दरिद्राणां रोगिणां परमौषधम्।
सिद्धिः सकलकार्याणां गाथेयं संसृता रवेः॥१२॥
॥इति श्रीयाज्ञवल्क्यविरचितं सूर्यार्यास्तोत्रं सम्पूर्णम्॥