सूर्यस्तुतिः
नमो नमो वरेण्याय वरदायांशुमालिने।
ज्योतिर्मय नमस्तुभ्यमनन्तायाजिताय ते॥१॥
त्रिलोकचक्षुषे तुभ्यं त्रिगुणायामृताय च।
नमो धर्माय हंसाय जगज्जननहेतवे॥२॥
नरनारीशरीराय नमो मीढुष्टमाय ते।
प्रज्ञानायाखिलेशाय सप्ताश्वाय त्रिमूर्तये॥३॥
नमो व्याहृतिरूपाय त्रिलक्षायाशुगामिने।
हर्यश्वाय नमस्तुभ्यं नमो हरितबाहवे॥४॥
एकलक्षविलक्षाय बहुलक्षाय दण्डिने।
एकसंस्थद्विसंस्थाय बहुसंस्थाय ते नमः॥५॥
शक्तित्रयाय शुक्लाय रवये परमेष्ठिने।
त्वं शिवस्त्वं हरिर्देव त्वं ब्रह्मा त्वं दिवस्पतिः॥६॥
त्वमोङ्कारो वषट्कारः स्वधा स्वाहा त्वमेव हि।
त्वामृते परमात्मानं न तत्पश्यामि दैवतम्॥७॥
॥इति श्री-सौरपुराणान्तर्गता मनुकृता सूर्यस्तुतिः सम्पूर्णा॥