Nama Stotram

केतुपञ्चविंशतिनामस्तोत्रम्

केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः।
लोककेतुर्महाकेतुः सर्वकेतुर्भगप्रदः॥१॥
रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक्।
पलालधूमसङ्काशश्चित्रयज्ञोपवीतधृक्॥२॥
तारागणविमर्दी च जैमिनेयो ग्रहाधिपः।
गणेशदेवो विघ्नेशो विषरोगार्तिनाशनः॥३॥
प्रव्राज्यदो ज्ञानदश्च तीर्थयात्राप्रवर्तकः।
पञ्चविंशतिनामानि केतोर्यः सततं पठेत्॥४॥
तस्य नश्यति बाधा च सर्वा केतुप्रसादतः।
धनधान्यपशूनां च भवेद्वृद्धिर्न संशयः॥५॥

॥इति श्री-स्कान्दपुराणे श्री-केतुपञ्चविंशतिनामस्तोत्रं सम्पूर्णम्॥