द्वादशार्यासूर्यस्तुतिः

उद्यन्नद्य विवस्वानारोहन्नुत्तरां दिवं देवः।
हृद्रोगं मम सूर्यो हरिमाणं चाऽऽशु नाशयतु॥१॥
निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे।
क्रममाण योजनानां नमोऽस्तु ते नलिननाथाय॥२॥
कर्म-ज्ञान-ख-दशकं मनश्च जीव इति विश्व-सर्गाय।
द्वादशधा यो विचरति स द्वादश-मूर्तिरस्तु मोदाय॥३॥
त्वं हि यजुर्ऋक् साम त्वमागमस्त्वं वषट्कारः।
त्वं विश्वं त्वं हंसस्त्वं भानो परमहंसश्च॥४॥
शिवरूपाज्ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात्।
शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि॥५॥
त्वचि दोषा दृशि दोषा हृदि दोषा येऽखिलेन्द्रियज-दोषाः।
तान् पूषा हतदोषः किञ्चिद् रोषाग्निना दहतु॥६॥
धर्मार्थ-काम-मोक्ष-प्रतिरोधानुग्र-ताप-वेग-करान्।
बन्दी-कृतेन्द्रिय-गणान् गदान् विखण्डयतु चण्डांशुः॥७॥
येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम्।
धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे॥८॥
यस्य सहस्राभीशोरभीशु-लेशो हिमांशु-बिम्बगतः।
भासयति नक्तमखिलं भेदयतु विपद्-गणानरुणः॥९॥
तिमिरमिव नेत्र-तिमिरं पटलमिवाशेष-रोग-पटलं नः।
काशमिवाधि-निकायं कालपिता रोगयुक्ततां हरतात्॥१०॥
वाताश्मरी-गदार्शस्त्वग्-दोष-महोदर-प्रमेहांश्च।
ग्रहणी-भगन्दराख्या महतीस्त्वं मे रुजो हंसि॥११॥
त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः।
त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो॥१२॥
इत्यार्या-द्वादशकं साम्बस्य पुरो नभःस्थलात् पतितम्।
पठतां भाग्य-समृद्धिः समस्त-रोग-क्षयश्च स्यात्॥१३॥

॥इति श्री-द्वादशार्यासूर्यस्तुतिः सम्पूर्णा॥