Stotra · Navagraha
बुधपञ्चविंशतिनामस्तोत्रम्
Budhapañcaviṃśatināmastotram
About this stotra
Twenty-five names of Budha (Mercury), from the Padma Purāṇa, in the Anuṣṭubh metre.Script
बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः।
प्रियङ्गुकलिकाश्यामः कञ्जनेत्रो मनोहरः॥१॥
ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः।
विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धनः॥२॥
चन्द्रात्मजो विष्णुरूपी ज्ञानिज्ञो ज्ञानिनायकः।
ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः॥३॥
लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः।
पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत्॥४॥
स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति।
तद्दिने वा पठेद् यस्तु लभते स मनोगतम्॥५॥
॥इति श्री-पद्मपुराणे श्री-बुधपञ्चविंशतिनामस्तोत्रं सम्पूर्णम्॥