कावेरी प्रार्थना

मरुद्वृधे महाभागे महादेवि मनोहरे।
सर्वाभीष्टप्रदे देवि स्नास्थितां पुण्यवर्धिनि॥१॥
सर्वपापक्षयकरे मम पापं विनाशय।
कवेरकन्ये कावेरि समुद्रमहिषिप्रिये॥२॥
देहि मे भक्तिमुक्ति त्वं सर्वतीर्थस्वरूपिणि।
सिन्धुवर्ये दयासिन्धो मामुद्धर दयाम्बुधे॥३॥
स्त्रियं देहि सुतं देहि श्रियं देहि ततः स्वगा।
आयुष्यं देहि चाऽऽरोग्यं ऋणान्मुक्तं कुरुष्व माम्॥४॥
तासां च सरितां मध्ये सह्यकन्याऽघनाशिनि।
कावेरि लोकविख्याता जनतापनिवारिणि॥५॥

॥इति श्री-ब्रह्माण्ड पुराणे कावरी प्रार्थना सम्पूर्णा॥