गङ्गाष्टकम्
भगवति भवलीलामौलिमाले तवाम्भः
कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति।
अमरनगरनारीचामरमरग्राहिणीनां
विगतकलिकलङ्कातङ्कमङ्के लुठन्ति॥१॥
ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती।
क्षोणी पृष्ठे लुठन्ती दुरितचयचमूं निर्भरं भर्त्सयन्ती
पाथोधिं पूरयन्ती सुरनगरसरित् पावनी नः पुनातु॥२॥
मज्जनमातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धाङ्गनानां कुचयुगविगलत् कुङ्कुमासङ्गपिङ्गम्।
सायं प्रातर्मुनीनां कुशकुसुमचयैश्छिन्नतीरस्थनीरं
पायान्नो गाङ्गमम्भः करिकलभकराक्रान्तरं हस्तरङ्गम्॥३॥
आदावादिपितामहस्य नियमव्यापारपात्रे जलं
पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम्।
भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम्॥४॥
शैलेन्द्रादवतारिणी निजजल-मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणी-समुत्सारिणी।
शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी॥५॥
कुतो वीची वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीताम्बरपुग्निवासं वितरसि।
त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां
तदा मातः शान्तक्रतवपदलाभोऽप्यतिलघुः॥६॥
भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि।
सकलकलुषभङ्गे स्वर्गसोपानगङ्गे
तरलतरतरङ्गे देवि गङ्गे प्रसीद॥७॥
मातर्जाह्नवी शम्भुसङ्गवलिते मौलौ निधायाञ्जलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्वयम्।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयाद् भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती॥८॥
गङ्गाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः।
सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति॥९॥
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्री-गङ्गाष्टकं सम्पूर्णम्॥
गङ्गे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये
पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे।
प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे
कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गङ्गे प्रसीद॥