गङ्गाकर्षणाष्टकम्

शम्भो भवन्नामनिरन्तरानुसन्धानभाग्येन भवन्तमेव।
यद्येष सर्वत्र तथाऽन्त्यजेऽद्य पश्यत्यहो कोऽत्र कृतोऽपराधः॥१॥
अस्त्वेष मन्तुः पितृयज्ञनिष्ठे गङ्गाप्लवो यो विहितोऽपचित्यै।
दूरात्तु तन्नामजपेन शुद्धिर्न स्यात् कथं मे स्मृतिरर्थवादः॥२॥
त्वन्नामनिष्ठा न हि तावती मे श्रद्धा यतः कर्मसु न प्रदग्धा।
त्रैशङ्कवं मे पशुपान्तरायो मुच्येय तस्मात्कथमार्तबन्धो॥३॥
यद्यद्य ते श्राद्धविनष्टिरिष्टा कोऽहं ततोऽन्यच्चरितुं समर्थः।
श्राद्धे वृताः पूर्वदिनोपवासा नान्यत्र भुञ्जीयुरिदं तु खिद्ये॥४॥
श्रद्धालवः श्राद्धविघातभीत्या स्वात्मोपरोधं विगणय्य धीराः।
यत्प्रोचुरत्रापचितिं महान्तः तत्रोचितं यद्दयया विधेहि॥५॥
गङ्गाधर त्वद्भजनान्तरायभीत्या गृहे कूपकृतावगाहः।
जाने न तीर्थान्तरमद्य गङ्गामासादयेयं कथमार्तबन्धो॥६॥
नाहं तपस्वी सगरान्ववायो जाने न जह्वश्चरति क्व वेति।
शम्भो जटाजूटमपावृणुष्वेत्यभ्यर्थने नालमयं वराकः॥७॥
गङ्गाधराख्या गतिरत्र नान्या तामाश्रये सङ्कटमोचनाय।
हन्त प्रवाहः कथमत्र कूपे विस्फूर्जतीशः खलु मे प्रसन्नः॥८॥
गङ्गेति गङ्गेति हरेति गृह्णन् आप्लावितोऽहं दयया पुरारेः।
कूपोत्थितोऽयं करुणाप्रवाहः गाङ्गश्चिरायात्र जनान् पुनातु॥९॥

॥इति श्रीमच्छ्रीधरार्यकृतं गङ्गाकर्षणाष्टकं सम्पूर्णम्॥