महालक्ष्मीस्तुतिः (अगस्त्यकृता)
अगस्तिरुवाच
मातर्नमामि कमले कमलायताक्षि
श्रीविष्णुहृत्कमलवासिनि विश्वमातः।
क्षीरोदजे कमलकोमलगर्भगौरि
लक्ष्मि प्रसीद सततं नमतां शरण्ये॥१॥
त्वं श्रीरुपेन्द्रसदने मदनैकमातर्-
ज्योत्स्नाऽसि चन्द्रमसि चन्द्रमनोहरास्ये।
सूर्ये प्रभाऽसि च जगत्त्रितये प्रभाऽसि
लक्ष्मि प्रसीद सततं नमतां शरण्ये॥२॥
त्वं जातवेदसि सदा दहनात्मशक्तिर्-
वेधास्त्वया जगदिदं विविधं विदध्यात्।
विश्वम्भरोऽपि बिभृयादखिलं भवत्या
लक्ष्मि प्रसीद सततं नमतां शरण्ये॥३॥
त्वत्त्यक्तमेतदमले हरते हरोऽपि
त्वं पासि हंसि विदधासि परावरासि।
ईड्यो बभूव हरिरप्यमले त्वदाप्त्या
लक्ष्मि प्रसीद सततं नमतां शरण्ये॥४॥
शूरः स एव स गुणी स बुधः स धन्यो
मान्यः स एव कुलशीलकलाकलापैः।
एकः शुचिः स हि पुमान् सकलेऽपि लोके
यत्रापतेत् तव शुभे करुणाकटाक्षः॥५॥
यस्मिन्वसेः क्षणमहो पुरुषे गजेऽश्वे
स्त्रैणे तृणे सरसि देवकुले गृहेऽन्ने।
रत्ने पतत्त्रिणि पशौ शयने धरायां
सश्रीकमेव सकले तदिहास्ति नान्यत्॥६॥
त्वत्स्पृष्टमेव सकलं शुचितां लभेत
त्वत्त्यक्तमेव सकलं त्वशुचीह लक्ष्मि।
त्वन्नाम यत्र च सुमङ्गलमेव तत्र
श्रीविष्णुपत्नि कमले कमलालयेऽपि॥७॥
लक्ष्मीं श्रियं च कमलां कमलालयां च
पद्मां रमां नलिनयुग्मकरां च मां च।
क्षीरोदजाममृतकुम्भकरामिरां च
विष्णुप्रियामिति सदा जपतां क्व दुःखम्॥८॥
ये पठिष्यन्ति च स्तोत्रं त्वद्भक्त्या मत्कृतं सदा।
तेषां कदाचित् सन्तापो माऽस्तु माऽस्तु दरिद्रता॥९॥
माऽस्तु चेष्टवियोगश्च माऽस्तु सम्पत्तिसङ्क्षयः।
सर्वत्र विजयश्चाऽस्तु विच्छदो माऽस्तु सन्ततेः॥१०॥
श्रीरुवाच
एवमस्तु मुने सर्वं यत्त्वया परिभाषितम्।
एतत् स्तोत्रस्य पठनं मम सान्निध्यकारणम्॥११॥
अलक्ष्मीः कालकर्णी च तद्गेहे न विशेत् क्वचित्।
गजाश्वपशुशान्त्यर्थमेतत्स्तोत्रं सदा जपेत्॥१२॥
इदं बीजरहस्यं मे रक्षणीयं प्रयत्नतः।
श्रद्धाहीने न दातव्यं न देयश्चाशुचौ क्वचित्॥१३॥
॥इति श्रीस्कन्दमहापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डेऽगस्त्यप्रस्थानं नाम पञ्चमेऽध्याये श्री-अगस्तिकृता महालक्ष्मीस्तुतिः सम्पूर्णा॥