वातपुरनाथाष्टकम्

कुन्दसुमवृन्दसममन्दहसितास्यं
नन्दकुलनन्दभरतुन्दलनकन्दम्।
पूतनिजगीतलवधूतदुरितं तं
वातपुरनाथमिममातनु हृदब्जे॥१॥
नीलतरजालधरभालहरिरम्यं
लोलतरशीलयुतबालजनलीलम्।
जालनतिशीलमपि पालयितुकामं
वातपुरनाथमिममातनु हृदब्जे॥२॥
कंसरणहिंसमिह संसरणजात-
क्लान्तिभरशान्तिकरकान्तिझरवीतम्।
वातमुखधातुजनिपातभयघातं
वातपुरनाथमिममातनु हृदब्जे॥३॥
जातुधुरिपातुकमिहातुरजनं द्राक्
शोकभरमूकमपि तोकमिव पान्तम्।
भृङ्गरुचिसङ्गरकृदङ्गलतिकं तं
वातपुरनाथमिममातनु हृदब्जे॥४॥
पापभवतापभरकोपशमनार्था-
श्वासकरभासमृदुहासरुचिरास्यम्।
रोगचयभोगभयवेगहरमेकं
वातपुरनाथमिममातनु हृदब्जे॥५॥
घोषकुलदोषहरवेषमुपयान्तं
पूषशतदूषकविभूषणगणाढ्यम्।
भुक्तिमपिमुक्तिमतिभक्तिषु ददानं
वातपुरनाथमिममातनु हृदब्जे॥६॥
पापकदुरापमतितापहरशोभ-
स्वापघनमामतदुमापतिसमेतम्।
दूनतरदीनसुखदानकृतदीक्षं
वातपुरनाथमिममातनु हृदब्जे॥७॥
पादपतदादरणमोदपरिपूर्णं
जीवमुखदेवजनसेवनफलाङ्घ्रिम्।
रूक्षभवमोक्षकृतदीक्षनिजवीक्षं
वातपुरनाथमिममातनु हृदब्जे॥८॥
भृत्यगणपत्युदितनुत्युचितमोदं
स्पष्टमिदमष्टकमदुष्टकरणार्हम्।
आदधतमादरदमादिलयशून्यं
वातपुरनाथमिममातनु हृदब्जे॥

॥इति महामहोपाध्याय-ब्रह्मश्री-पैङ्गानाडु-गणपतीशास्त्रिभिः विरचितं श्रीवातपुरनाथाष्टकम् सम्पूर्णम्॥