श्री-स्कान्दपुराणान्तर्गत-मार्गशीर्ष-माहात्म्ये कृष्ण-नाम-माहात्म्यम्
वक्तव्यमेव यत्प्रोक्तं तच्छृणुष्व समाहितः।
कथयिष्ये तव प्रीत्या अपि गुह्यतरं मम॥३२॥
मम नाम प्रवक्तव्यं सहे चैव विशेषतः।
कृष्णकृष्णेति वक्तव्यं मम प्रीतिकरं परम्॥३३॥
प्रतिज्ञैषा च मे पुत्र न जानन्ति सुरासुराः।
मनसा कर्मणा वाचा यो मे शरणमागतः॥३४॥
स हि सर्वामवाप्नोति कामनामिह लौकिकीम्।
सर्वोत्कृष्टं च वैकुण्ठं मत्प्रियां कमलामपि॥३५॥
कृष्णकृष्णेति कृष्णेति यो मां स्मरति नित्यशः।
जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम्॥३६॥
विनोदेनापि दम्भेन मौढ्याल्लोभाच्छलादपि।
यो मां भजत्यसौ वत्स मद्भक्तो नावसीदति॥३७॥
ये वै पठन्ति कृष्णेति मरणे पर्युपस्थिते।
यदि पापयुताः पुत्र न पश्यन्ति यमं क्वचित्॥३८॥
पूर्वे वयसि पापानि कृतान्यपि च कृत्स्नशः।
अन्तकाले च कृष्णेति स्मृत्वा मामेत्यसंशयम्॥३९॥
नमः कृष्णाय महते विवशोऽपि वदेद्यदि।
ध्रुवं पदमवाप्नोति मरणे पर्युपस्थिते॥४०॥
श्रीकृष्णेति कृतोच्चारैः प्राणैर्यदि वियुज्यते।
दूरस्थः पश्यति च तं स्वर्गतं प्रेतनायकः॥४१॥
श्मशाने यदि रथ्यायां कृष्णकृष्णेति जल्पति।
म्रियते यदि चेत्पुत्र मामेवैति न संशयः॥४२॥
दर्शनान्मम भक्तानां मृत्युमाप्नोति यः क्वचित्।
विना मत्स्मरणात्पुत्र मुक्तिमेति स मानवः॥४३॥
पापानलस्य दीप्तस्य भयं मा कुरु पुत्रक।
श्रीकृष्णनाममेघोत्थैः सिच्यते नीरबिन्दुभिः॥४४॥
कलिकालभुजङ्गस्य तीक्ष्णदंष्ट्रस्य किं भयम्।
श्रीकृष्णनामदारूत्थवह्निदग्धः स नश्यति॥४५॥
पापपावकदग्धानां कर्मचेष्टावियोगिनाम्।
भेषजं नास्ति मर्त्यानां श्रीकृष्णस्मरणं विना॥४६॥
प्रयागे वै यथा गङ्गा शुक्लतीर्थे च नर्मदा।
सरस्वती कुरुक्षेत्रे तद्वच्छ्रीकृष्णकीर्तनम्॥४७॥
भवाम्भोधिनिमग्नानां महापापोर्मिपातिनाम्।
न गतिर्मानवानां च श्रीकृष्णस्मरणं विना॥४८॥
मृत्युकालेऽपि मर्त्यानां पापिनां तदनिच्छताम्।
गच्छतां नास्ति पाथेयं श्रीकृष्णस्मरणं विना॥४९॥
तत्र पुत्र गया काशी पुष्करं कुरुजाङ्गलम्।
प्रत्यहं मन्दिरे यस्य कृष्णकृष्णेति कीर्तनम्॥५०॥
जीवितं जन्मसाफल्यं सुखं तस्यैव सार्थकम्।
सततं रसना यस्य कृष्णकृष्णेति जल्पति॥५१॥
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम्।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति॥५२॥
नाम्नोऽस्य यावती शक्तिः पापनिर्दहने मम।
तावत्कर्तुं न शक्नोति पातकं पातकी जनः॥५३॥
नापविद्धं भवेत् तस्य शरीरं नैव मानसम्।
न पापं न च वैक्लव्यं कृष्णकृष्णेति कीर्तनात्॥५४॥
श्रीकृष्णेति वचः पथ्यं न त्यजेद् यः कलौ नरः।
पापामयो वै न भवेत्कलौ तस्यैव मानसे॥५५॥
श्रीकृष्णेति प्रजल्पन्तं दक्षिणाशापतिर्नरम्।
श्रुत्वा मार्जयते पापं तस्य जन्मशतार्जितम्॥५६॥
चान्द्रायणशतैः पापं पराकाणां सहस्रकैः।
यन्नापयाति तद्याति कृष्णकृष्णेति कीर्तनात्॥५७॥
नान्याभिर्नामकोटीभिस्तोषो मम भवेत् क्वचित्।
श्रीकृष्णेति कृतोच्चारे प्रीतिरेवाधिकाधिका॥५८॥
चन्द्रसूर्योपरागैस्तु कोटीभिर्यत्फलं स्मृतम्।
तत्फलं समवाप्नोति कृष्णकृष्णेति कीर्तनात्॥५९॥
गुरुदाराभिगमनं हेमस्तेयादि पातकम्।
श्रीकृष्णकीर्तनाद् याति घर्मतप्तं हिमं यथा॥६०॥
युक्तो यदि महापापैरगम्यागमनादिभिः।
मुच्यते चान्तकालेऽपि सकृच्छ्रीकृष्णकीर्तनात्॥६१॥
अविशुद्धमना यस्तु विनाऽप्याचारवर्तनात्।
प्रेतत्वं सोऽपि नाऽऽप्नोति अन्ते श्रीकृष्णकीर्तनात्॥६२॥
मुखे भवतु मा जिह्वाऽसती यातु रसातलम्।
न सा चेत् कलिकाले या श्रीकृष्णगुणवादिनी॥६३॥
स्ववक्त्रे परवक्त्रे च वन्द्या जिह्वा प्रयत्नतः।
कुरुते या कलौ पुत्र श्रीकृष्णगुणकीर्तनम्॥६४॥
पापवल्ली मुखे तस्य जिह्वारूपेण कीर्त्यते।
या न वक्ति दिवारात्रौ श्रीकृष्णगुणकीर्तनम्॥६५॥
पततां शतखण्डा तु सा जिह्वा रोगरूपिणी।
श्रीकृष्णकृष्णकृष्णेति श्रीकृष्णेति न जल्पति॥६६॥
श्रीकृष्णनाममाहात्म्यं प्रातरुत्थाय यः पठेत्।
तस्याऽहं श्रेयसां दाता भवाम्येव न संशयः॥६७॥
श्रीकृष्णनाममाहात्म्यं त्रिसन्ध्यं हि पठेत् तु यः।
सर्वान्कामानवाप्नोति स मृतः परमां गतिम्॥६८॥
॥इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये श्रीकृष्णनाममाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः॥