श्री-कृष्ण-जननम्
निशीथे तम उद्भूते जायमाने जनार्दने।
देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः।
आविरासीद् यथा प्राच्यां दिशीन्दुरिव पुष्कलः॥८॥
तमद्भुतं बालकमम्बुजेक्षणम्
चतुर्भुजं शङ्खगदाद्युदायुधं।
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभम्
पीताम्बरं सान्द्रपयोदसौभगम्॥९॥
महार्ह-वैदूर्य-किरीट-कुण्डल-
त्विषा परिष्वक्तसहस्रकुन्तलम्।
उद्दाम-काञ्च्यङ्गद-कङ्कणादिभिर्-
विरोचमानं वसुदेव ऐक्षत॥१०॥
॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्थे तृतीयेऽध्याये श्री-कृष्ण-जन्मानुवर्णनम्॥