Stotra · Kṛṣṇa
कृष्णद्वादशनामस्तोत्रम्
Kṛṣṇadvādaśanāmastotram
About this stotra
The Kṛṣṇa Dvādaśa-nāma Stotram — twelve names of Śrī Kṛṣṇa, from the Mahābhārata, in the Anuṣṭubh metre.Script
शृणुध्वं मुनयः सर्वे गोपालस्य महात्मनः।
अनन्तस्याप्रमेयस्य नामद्वादशकं स्तवम्॥
अर्जुनाय पुरा गीतं गोपालेन महात्मना।
द्वारकायां प्रार्थयते यशोदायाश्च सन्निधौ॥
ध्यानम्
जानुभ्यामपि धावन्तं बाहुभ्यामतिसुन्दरम्।
सकुण्डलालकं बालं गोपालं चिन्तयेदुषः॥
स्तोत्रम्
प्रथमं तु हरिं विद्याद् द्वितीयं केशवं तथा।
तृतीयं पद्मनाभं तु चतुर्थं वामनं तथा॥१॥
पञ्चमं वेदगर्भं च षष्ठं तु मधुसूदनम्।
सप्तमं वासुदेवं च वराहं चाष्टमं तथा॥२॥
नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम्।
कृष्णमेकादशं प्रोक्तं द्वादशं श्रीधरं तथा॥३॥
एतद् द्वादशनामानि मया प्रोक्तानि फाल्गुन।
कालत्रये पठेद् यस्तु तस्य पुण्यफलं शृणु॥४॥
चान्द्रायणसहस्रस्य कन्यादानशतस्य च।
अश्वमेधसहस्रस्य फलमाप्नोति मानवः॥५॥
॥इति श्री-कृष्णद्वादशनामस्तोत्रं सम्पूर्णम्॥