Pancharatnam

गुरुवातपुरीशपञ्चरत्नम्

कल्याणरूपाय कलौ जनानां कल्याणदात्रे करुणासुधाब्धे।
कम्ब्वादिदिव्यायुधसत्कराय वातालयाधीश नमो नमस्ते॥१॥
नारायणेत्यादि जपद्भिरुच्चैः भक्तैः सदापूर्णमहालयाय।
स्वतीर्थगाङ्गोपम-वारिमग्न निवर्तिताशेषरुजे नमस्ते॥२॥
ब्राह्मे मुहूर्ते परिधः स्वभक्तैः सन्दृष्टसर्वोत्तमविश्वरूप।
स्वतैलसंसेवकरोगहर्त्रे वातालयाधीश नमो नमस्ते॥३॥
बालान् स्वकीयान् तवसन्निधाने दिव्यान्नदानात्परिपालयद्भिः।
सदा पठद्भिश्च पुराणरत्नं संसेवितायास्तु नमो हरे ते॥४॥
नित्यान्नदात्रे च महीसुरेभ्यः नित्यं दिविस्थैर्निशि पूजिताय।
मात्रा च पित्रा च तथोद्धवेन सम्पूजितायास्तु नमो नमस्ते॥५॥
अनन्तरामाख्य-मखिप्रणीतं स्तोत्रं पठेद्यस्तु नरस्त्रिकालम्।
वातालयेशस्य कृपाफलेन लभेत सर्वाणि च मङ्गलानि॥
गुरुवातपुरीशपञ्चकाख्यं स्तुतिरत्नं पठतां सुमङ्गलं स्यात्।
हृदि चापि विशेद्धरिः स्वयं तु रतिनाथायुततुल्यदेहकान्तिः॥

॥इति श्री-अनन्तराम-दीक्षितेन विरचितं
श्री-गुरुवातपुरीशपञ्चरत्नं सम्पूर्णम्‌॥

कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुः करे कङ्कणम्।
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः॥
अस्ति स्वस्तरुणीकराग्रविगलत् कल्पप्रसूनाप्लुतं
वस्तुप्रस्तुतवेणुनादलहरी निर्वाणनिर्व्याकुलम्।
स्रस्तस्रस्तनिबद्धनीविविलसत् गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति॥