Stotra · Kṛṣṇa
भीष्मस्तुतिः
Bhīṣmastutiḥ
About this stotra
From the Śrīmad Bhāgavatam (Skandha 1, Adhyāya 9). The war is over. Bhīṣma lies on his bed of arrows at Kurukṣetra, waiting for the sun to turn north before he gives up his body. Yudhiṣṭhira comes with his brothers and Śrī Kṛṣṇa, and after Bhīṣma has taught him dharma, the moment arrives. Gazing at Kṛṣṇa standing before him, Bhīṣma offers this praise: he recalls the Lord as Arjuna’s charioteer, His face dusted by the battle, and the time He broke His own vow and rushed at Bhīṣma wheel in hand to keep His devotee’s word. Then, his mind fixed on Kṛṣṇa, he sheds his mortal coil.Script
श्री-भीष्म उवाच
इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि।
स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद् भवप्रवाहः॥१॥
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने।
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या॥२॥
युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलङ्कृतास्ये।
मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा॥३॥
सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य।
स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु॥४॥
व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या।
कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु॥५॥
स्वनिगममपहाय मत्प्रतिज्ञामृतमधिकर्तुमवप्लुतो रथस्थः।
धृतरथचरणोऽभ्ययाच्चलद्गुर्हरिरिव हन्तुमिभं गतोत्तरीयः॥६॥
शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे।
प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः॥७॥
विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये।
भगवति रतिरस्तु मे मुमूर्षोर्यमिह निरीक्ष्य हता गताः स्वरूपम्॥८॥
ललितगतिविलासवल्गुहास प्रणयनिरीक्षणकल्पितोरुमानाः।
कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन्किल यस्य गोपवध्वः॥९॥
मुनिगणनृपवर्यसङ्कुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम्।
अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा॥१०॥
तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम्।
प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोहः॥११॥
सूत उवाच
कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः।
आत्मन्यात्मानमावेश्य सोऽन्तःश्वास उपारमत्॥
॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमे स्कन्धे नवमेऽध्याये श्री-भीष्मस्तुतिः सम्पूर्णा॥