भज गोविन्दम्

भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते।
सम्प्राप्ते सन्निहिते काले
न हि न हि रक्षति डुकृञ् करणे॥१॥
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम्।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम्॥२॥
यावद्वित्तोपार्जन-सक्तः
तावन्निज-परिवारो रक्तः।
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे॥३॥
मा कुरु धनजनयौवनगर्वं
हरति निमेषात् कालः सर्वम्।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा॥४॥
सुरमन्दिर-तरुमूल-निवासः
शय्या भूतलमजिनं वासः।
सर्व-परिग्रह भोगत्यागः
कस्य सुखं न करोति विरागः॥५॥
भगवद्गीता किञ्चिदधीता
गङ्गाजललव-कणिका पीता।
सकृदपि येन मुरारि समर्चा
क्रियते तस्य यमेन न चर्चा॥६॥
पुनरपि जननं पुनरपि मरणं
पुनरपि जननी-जठरे शयनम्।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे॥७॥
गेयं गीता नामसहस्रं
ध्येयं श्रीपति-रूपमजस्रम्।
नेयं सज्जन-सङ्गे चित्तं
देयं दीनजनाय च वित्तम्॥८॥
अर्थमनर्थं भावय नित्यं
नास्ति ततः सुखलेशः सत्यम्।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः॥९॥
गुरुचरणाम्बुज-निर्भर-भक्तः
संसारादचिराद्भव मुक्तः।
सेन्द्रियमानस-नियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम्॥१०॥

॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ भज गोविन्दं सम्पूर्णम्॥