अक्रूरकृत-दशावतारस्तुतिः
नमः कारणमत्स्याय प्रलयाब्धिचराय च।
हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे॥१॥
अकूपाराय बृहते नमो मन्दरधारिणे।
क्षित्युद्धारविहाराय नमः शूकरमूर्तये॥२॥
नमस्तेऽद्भुतसिंहाय साधुलोकभयापह।
वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च॥३॥
नमो भृगूणां पतये दृप्तक्षत्रवनच्छिदे।
नमस्ते रघुवर्याय रावणान्तकराय च॥४॥
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च।
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः॥५॥
नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने।
म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे॥६॥
॥इति श्रीमद्भागवते महापुराणे दशमस्कन्धे चत्वारिंशेऽध्याये श्री-अक्रूरकृत दशावतारस्तुतिः सम्पूर्णा॥