अच्युताष्टकम्
अच्युतं केशवं राम-नारायणं
कृष्ण-दामोदरं वासुदेवं हरिम्।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे॥१॥
अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम्।
इन्दिरा मन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दनं सन्दधे॥२॥
विष्णवे जिष्णवे शङ्खिने चक्रिणे
रुक्मिणी-रागिने जानकी-जानये।
वल्लवी-वल्लभायाऽर्चितायात्मने
कंस-विध्वंसिने वंशिने ते नमः॥३॥
कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवार्जित-श्रीनिधे।
अच्युतानन्त हे माधवाधोक्षज
द्वारका-नायक द्रौपदी-रक्षक॥४॥
राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्य-भू-पुण्यता-कारणः।
लक्ष्मणेनान्वितो वानरैः सेवितो-
ऽगस्त्यसम्पूजितो राघवः पातु माम्॥५॥
धेनुकारिष्टकोऽनिष्टकृद् द्वेषिणां
केशिहा कंसहृद् वंशिकावादकः।
पूतनाकोपकः सूरजा-खेलनो
बाल-गोपालकः पातु मां सर्वदा॥६॥
विद्युदाद्योतवान् प्रस्फुरद्वाससं
प्रावृडम्भोदवत् प्रोल्लसद्विग्रहम्।
वन्यया मालया शोभितोरस्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे॥७॥
कुञ्चितैः कुन्तलैर्भ्राजिमानाननं
रत्नमौलिं लसत् कुण्डलं गण्डयोः।
हारकेयूरकं कङ्कण-प्रोज्ज्वलं
किङ्किणी-मञ्जुलं श्यामलं तं भजे॥८॥
अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम्।
वृत्ततः सुन्दरं वेद्यविश्वम्बरं
तस्य वश्यो हरिर्जायते सत्वरम्॥
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्री-अच्युताष्टकं सम्पूर्णम्॥