सुन्दरहनुमान् महामन्त्रनामस्तोत्रम्
हनुमान् अञ्जनासूनुर्वायुपुत्रो महाबलः।
कपीन्द्रः पिङ्गलाक्षश्च लङ्काद्वीपभयङ्करः॥१॥
प्रभञ्जनसुतो वीरः सीताशोकविनाशकः।
अक्षहन्ता रामसखो रामकार्यधुरन्धरः॥२॥
महौषधगिरेर्धारी वानरप्राणदायकः।
वारीशतारकश्चैव मैनाकगिरिभञ्जनः॥३॥
निरञ्जनो जितक्रोधः कदलीवनसंवृतः।
ऊर्ध्वरेता महासत्त्वः सर्वमन्त्रप्रवर्तकः॥४॥
महालिङ्गप्रतिष्ठाता बाष्पकृज्जपतान्तरः।
शिवध्यानपरो नित्यं शिवपूजापरायणः॥५॥
॥इति श्री-पराशरसंहितान्तर्गतं श्री-सुन्दरहनुमान् महामन्त्रनामस्तोत्रं सम्पूर्णम्॥