Pancharatnam

हनुमत्-पञ्चरत्नम्

वीताखिल-विषयेच्छं जातानन्दाश्रु-पुलकमत्यच्छम्।
सीतापति-दूताद्यं वातात्मजमद्य भावये हृद्यम्॥१॥
तरुणारुण-मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम्।
सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम्॥२॥
शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम्।
कम्बुगलमनिलदिष्टं बिम्ब-ज्वलितोष्ठमेकमवलम्बे॥३॥
दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्तिः।
दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः॥४॥
वानर-निकराध्यक्षं दानव-कुल-कुमुद-रविकर-सदृशम्।
दीन-जनावन-दीक्षं पवनतपः पाकपुञ्जमद्राक्षम्॥५॥
एतत् पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम्।
चिरमिह निखिलान् भोगान् भुक्त्वा श्रीराम-भक्तिभाग् भवति॥६॥

॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ श्री-हनुमत्-पञ्चरत्नं सम्पूर्णम्॥

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृत-मस्तकाञ्जलिम्।
बाष्पवारिपरिपूर्ण-लोचनं मारुतिं नमत राक्षसान्तकम्॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोकवह्निं जनकात्मजायाः।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम्॥
बुद्धिर्बलं यशो धैर्यं निर्भयत्वम् अरोगता।
अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत्॥
असाध्यसाधक स्वामिन् असाध्यं तव किं वद।
रामदूत कृपसिन्धो मत्कार्यं साधय प्रभो॥