श्रीकाञ्चीकामकोटिपीठजगद्गुरुपरम्परास्तवः

(पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः)

नारायणं पद्मभुवं वसिष्ठं
शक्तिं च तत्पुत्रपराशरं च।
व्यासं शुकं गौडपदं महान्तं
गोविन्दयोगीन्द्रमथास्य शिष्यम्॥१॥
श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम्।
तं तोटकं वार्तिककारमन्यान् अस्मद्गुरून् सन्ततमानतोऽस्मि॥२॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥३॥
सर्वतन्त्रस्वतन्त्राय सदाऽऽत्माद्वैतवेदिने।
श्रीमते शङ्करार्याय वेदान्तगुरवे नमः॥४॥
अविप्लुतब्रह्मचर्यान् अन्वितेन्द्रसरस्वतीन्।
आत्तमिथ्यावारपथान् अद्वैताचार्यसङ्कथान्॥५॥
आसेतुहिमवच्छैलं सदाचारप्रवर्तकान्।
जगद्गुरून् स्तुमः काञ्चीशारदामठसंश्रयान्॥६॥
पवित्रितेतराद्वैतमठपीठीशिरोभुवे।
श्रीकाञ्चीशारदापीठगुरवे भवभीरवे॥७॥
वार्तिकादिब्रह्मविद्याकर्त्रे ब्रह्मावतारिणे।
सुरेश्वराचार्यनाम्ने योगीन्द्राय नमो नमः॥८॥
अपोऽश्नन्नेव जैनान् य आप्राग्ज्योतिषमाच्छिनत्।
शिशुमाचार्यवाग्वेणीरयरोधिमहोबलम्॥९॥
सङ्क्षेपशारीरमुखप्रबन्धविवृताद्वयम्।
ब्रह्मस्वरूपार्यभाष्यशान्त्याचार्यकपण्डितम्॥१०॥
सर्वज्ञचन्द्रनाम्ना च सर्वतो भुवि विश्रुतम्।
सर्वज्ञसद्गुरुं वन्दे सर्वज्ञमिव भूगतम्॥११॥
मेधाविनं सत्यबोधं व्याधूतविमतोच्चयम्।
प्राच्यभाष्यत्रयव्याख्याप्रवीणं प्रभुमाश्रये॥१२॥
ज्ञानानन्दमुनीन्द्रार्यं ज्ञानोत्तमपराभिधम्।
चन्द्रचूडपदासक्तं चन्द्रिकाकृतमाश्रये॥१३॥
शुद्धानन्दमुनीन्द्राणां विद्धार्हतमतत्विषाम्।
आनन्दज्ञानसेव्यानाम् आलम्बे चरणाम्बुजम्॥१४॥
सर्वशाङ्करभाष्यौघभाष्यकर्तारमद्वयम्।
सर्ववार्तिकसद्वृत्तिकृतं श्रीशैलगं भजे॥१५॥
कैवल्यानन्दयोगीन्द्रान् केवलं राजयोगिनः।
कैवल्यमात्रनिरतान् कलयेम जगद्गुरून्॥१६॥
श्रीकृपाशङ्करार्याणां मर्यादातीततेजसाम्।
षण्मताचार्यकजुषाम् अङ्घ्रिद्वन्द्वमहं श्रये॥१७॥
महिष्ठाय नमस्तस्मै महादेवाय योगिने।
सुरेश्वरापराख्याय गुरवे दोषभीरवे॥१८॥
स्तुमः सदा शिवानन्दचिद्घनेन्द्रसरस्वतीन्।
कामाक्षीचन्द्रमौल्यर्चाकलनैकलसन्मतीन्॥१९॥
सार्वभौमाभिधमहाव्रतचर्यापरायणान्।
वन्दे जगद्गुरूंश्चन्द्रशेखरेन्द्रसरस्वतीन्॥२०॥
समाद्वात्रिंशदत्युग्रकाष्ठमौनसमाश्रयान्।
जितमृत्यून् महालिङ्गभूतान् सच्चिद्घनान् नुमः॥२१॥
महाभैरवदुस्तन्त्रदुर्दान्तध्वान्तभास्करान्।
विद्याघनान् नमस्यामि सर्वविद्याविचक्षणान्॥२२॥
आचार्यपदपाथोजपरिचर्यापरायणम्।
गङ्गाधरं नमस्यामः सदा गङ्गाधरार्चकम्॥२३॥
जगज्जयिसुसौराष्ट्रजरदृष्टिमदापहान्।
शकसिल्हकदर्पघ्नान् ईडीमहि महायतीन्॥२४॥
चतुस्समुद्रीक्रोडस्थवर्णाश्रमविचारकान्।
श्रितविप्रव्रजस्कन्धसुवर्णान्दोलिकाचरान्॥२५॥
प्रत्यहं ब्रह्मसाहस्रसन्तर्पणधृतव्रतान्।
सदाशिवसमाह्वानान् स्मरामः सद्गुरून् सदा॥२६॥
मायालोकायतीभूतबृहस्पतिमदापहान्।
वन्दे सुरेन्द्रवन्द्याङ्घ्रीन् श्रीसुरेन्द्रसरस्वतीन्॥२७॥
श्रीविद्याकरुणालब्धब्रह्मविद्याहृतामयान्।
वन्दे वशंवदप्राणान् मुनीन् विद्याघनान् मुहुः॥२८॥
विद्याघनकृपालब्धसर्ववेदान्तविस्तरम्।
कौतस्कुतोत्पातकेतुं निश्शङ्कं नौमि शङ्करम्॥२९॥
चन्द्रचूडपदध्यानप्राप्तानन्दमहोदधीन्।
यतीन्द्रांश्चन्द्रचूडेन्द्रान् स्मरामि मनसा सदा॥३०॥
नमामि परिपूर्णश्रीबोधान् ग्रावाभिलापकान्।
यदीक्षणात् पलायन्त प्राणिनामामयाधयः॥३१॥
सच्चित्सुखान् प्रपद्येऽहं सुखम् आप्तगुहास्थितीन्।
चित्सुखाचार्यमीडेऽहं सत्सुखं कोङ्कणाश्रयम्॥३२॥
भजे श्रीसच्चिदानन्दघनेन्द्रान् रससाधनात्।
लिङ्गात्मना परिणतान् प्रभासे योगसंश्रिते॥३३॥
भगवत्पादपादाब्जासक्तिनिर्णिक्तमानसान्।
प्रज्ञाघनं चिद्विलासं महादेवं च मैथिलम्॥३४॥
पूर्णबोधं च बोधं च भक्तियोगप्रवर्तकम्।
ब्रह्मानन्दघनेन्द्रं च नमामि नियतात्मनः॥३५॥
चिदानन्दघनेन्द्राणां लम्बिकायोगसेविनाम्।
जीर्णपर्णाशिनां पादौ प्रपद्ये मनसा सदा॥३६॥
सच्चिदानन्दनामानं शिवार्चनपरायणम्।
भाषापञ्चदशीप्राज्ञं भावयामि सदा मुदा॥३७॥
भूप्रदक्षिणकर्मैकसक्तं श्रीचन्द्रशेखरम्।
त्रातदावाग्निसन्दग्धकिशोरकमुपास्महे॥३८॥
चित्सुखेन्द्रं सुखेनैव क्रान्तसह्यगुहागृहम्।
कामरूपचरं नानारूपवन्तमुपास्महे॥३९॥
निर्दोषसंयमधरान् चित्सुखानन्दतापसान्।
विद्याघनेन्द्रान् श्रीविद्यावशीकृतजनान् स्तुमः॥४०॥
शङ्करेन्द्रयतीन्द्राणां पादुके ब्रह्मसम्भृते।
नमामि शिरसा याभ्यां त्रीन् लोकान् व्यचरन्मुनिः॥४१॥
सच्चिद्विलासयोगीन्द्रं महादेवेन्द्रमुज्ज्वलम्।
गङ्गाधरेन्द्रमप्येतान् नौमि वादिशिरोमणीन्॥४२॥
ब्रह्मानन्दघनेन्द्राख्यांस्तथाऽऽनन्दघनान् अपि।
पूर्णबोधमहर्षींश्च ज्ञाननिष्ठानुपास्महे॥४३॥
वृत्त्याऽऽजगर्या श्रीशैलगुहागृहकृतस्थितीन्।
श्रीमत्परशिवाभिख्यान् सर्वातीतान् श्रये सदा॥४४॥
अन्योन्यसदृशान्योन्यौ बोधश्रीचन्द्रशेखरौ।
प्रणवोपासनासक्तमानसौ मनसा श्रये॥४५॥
मुक्तिलिङ्गार्चनानन्दविस्मृताशेषवृत्तये।
चिदम्बररहस्यन्तर्लीनदेहाय योगिने॥४६॥
अद्वैतानन्दसाम्राज्यविद्रुताशेषपाप्मने।
अद्वैतानन्दबोधाय नमो ब्रह्म समीयुषे॥४७॥
श्रये महादेवचन्द्रशेखरेन्द्रमहामुनी।
महाव्रतसमारब्धकोटिहोमान्तगामिनौ॥४८॥
विद्यातीर्थसमाह्वानान् श्रीविद्यानाथयोगिनः।
विद्यया शङ्करप्रख्यान् विद्यारण्यगुरून् भजे॥४९॥
सच्चिद्घनेन्द्रान् अद्वैतब्रह्मानन्दमुनीनपि।
सान्द्रानन्दयतीन्द्रांश्च तथाप्यद्वैतशेवधीन्॥५०॥
महादेवशिवाद्वैतसुखानन्दयतीश्वरौ।
मनसा भावये नित्यं महासंयमधारिणौ॥५१॥
वीक्षणात् सर्वभूतानां विषव्याधिनिबर्हणम्।
शिवयोगीश्वरं साक्षाच्चिन्तयामि सदा मुदा॥५२॥
प्रत्यग्ज्योतिःप्रकाशेन्द्रान् प्रत्यग्ज्योतिरुपासिनः।
न्यक्कृताशेषदुस्तर्ककार्कश्यान् सततं स्तुमः॥५३॥
शङ्करानन्दयोगीन्द्रपदपङ्कजयोर्युगम्।
बुक्कभूपशिरोरत्नं स्मरामि सततं हृदा॥५४॥
श्रीपूर्णानन्दमौनीन्द्रं नेपालनृपदेशिकम्।
अव्याहतस्वसञ्चारं संश्रयामि जगद्गुरुम्॥५५॥
महादेवश्च तच्छिष्यश्चन्द्रशेखरयोग्यपि।
स्तां मे हृदि सदा धीरावद्वैतमतदेशिकौ॥५६॥
प्रवीरसेतुभूपालसेविताङ्घ्रिसरोरुहान्।
भजे सदाशिवेन्द्रश्रीबोधेश्वरगुरून् सदा॥५७॥
सदाशिवश्रीब्रह्मेन्द्रधृतस्वपदपादुकान्।
धीरान् परशिवेन्द्रार्यान् ध्यायामि सततं हृदि॥५८॥
आत्मबोधयतीन्द्राणाम् आशीताचलचारिणाम्।
अन्यश्रीशङ्कराचार्यधीकृतामङ्घ्रिमाश्रये॥५९॥
भगवन्नामसाम्राज्यलक्ष्मीसर्वस्वविग्रहान्।
श्रीमद् बोधेन्द्रयोगीन्द्रदेशिकेन्द्रानुपास्महे॥६०॥
अद्वैतात्मप्रकाशाय सर्वशास्त्रार्थवेदिने।
विधूतसर्वभेदाय नमो विश्वातिशायिने॥६१॥
आ सप्तमाज्जीर्णपर्णजलवातारुणांशुभिः।
कृतस्वप्राणयात्राय महादेवाय सन्नतिः॥६२॥
चोलकेरलचेरौड्रपाण्ड्यकर्णाटकोङ्कणान्।
महाराष्ट्रान्ध्रसौराष्ट्रमगधादींश्च भूभुजः॥६३॥
शिष्यान् आसेतुशीताद्रि शासते पुण्यकर्मणे।
श्रीचन्द्रशेखरेन्द्राय जगतो गुरवे नमः॥६४॥
निष्पापवृत्तये नित्यनिर्धूतभवकॢप्तये।
महादेवाय सततं नमोऽस्तु नतरक्षिणे॥६५॥
श्रीविद्योपासनादार्ढ्यवशीकृतचराचरान्।
श्रीचन्द्रशेखरेन्द्रार्यान् शङ्करप्रतिमान् नुमः॥६६॥
श्रीकाञ्चीशारदापीठसंस्थितानाम् इमां क्रमात्।
स्तुतिं जगद्गुरूणां यः पठेत् स सुखभाग् भवेत्॥६७॥

॥परिशिष्टम् - १॥

(अत्र १-४ पद्यानि पोलहग्रामाभिजनैः श्रीरामशास्त्रिभिः प्रकाशितानि। ५ पद्यं नवषष्टितमैः पीठाधिपतिभिः श्रीमज्जयेन्द्रसरस्वतीश्रीपादैः रचितम्। ६-७ पद्ये शिमिलिग्रामाभिजनैः राधाकृष्णशास्त्रिभिः विरचिते।)

कलानन्दपरब्रह्मानन्दानुभवतुन्दिलान्।
महादेवेन्द्रयमिनः सततं संश्रये हृदा॥६८॥
प्रतिदिनविहितश्रीचन्द्रमौलीश्वरार्चा-
प्रसितसकलदेहः प्रौढपुण्यानुभावः।
मनसि सततमास्तां श्रीमहादेवनामा
मम गुरुरितकाञ्चीशारदापीठसीमा॥६९॥
अतिबाल्यविधृतसंयमविमलमनःसेवितेशचरणयुगान्।
श्रीचन्द्रशेखरेन्द्रान् साम्प्रतमाचार्यशेखरान् प्रणुमः॥७०॥
लक्ष्मीनारायण इति पूर्वाश्रमनामभूषितं शान्तम्।
ऋग्वेदे सम्यगधीतिनं महादेवमाश्रयामि गुरुम्॥७१॥
अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम्।
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदाऽन्वहम्॥७२॥
परित्यज्य मौनं वटाधःस्थितिं च
व्रजन् भारतस्य प्रदेशात् प्रदेशम्।
मधुस्यन्दिवाचा जनान् धर्ममार्गे
नयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते॥७३॥
नमामः शङ्करान्वाख्यविजयेन्द्रसरस्वतीम्।
श्रीगुरुं शिष्टमार्गानुनेतारं सन्मतिप्रदम्॥७४॥
देवे देहे च देशे च भक्त्यारोग्य-सुख-प्रदम्।
बुध-पामर-सेव्यं तं श्री-जयेन्द्रं नमाम्यहम्॥
नमामः शङ्करान्वाख्य-विजयेन्द्रसरस्वतीम्।
श्रीगुरुं शिष्टमार्गानुनेतारं सन्मतिप्रदम्॥
सत्यनारायणक्षेत्रात् सत्यव्रतमुपागतम्।
आश्रये कामकोटीशं सत्यश्रीचन्द्रशेखरम्॥