स्तोत्रसंहिताStotraSamhita
Stotra · Guru Parampara

जगद्गुरुरत्नमाला

Jagadgururatnamālā

About this stotra

The Jagadguru Ratnamālā of Śrī Sadāśiva Brahmendra, the avadhūta saint of Nerūr, is a garland of verses on the Guru-paramparā of the Śrī Kāñcī Kāmakoṭi Pīṭha. After salutations to the Supreme Brahman, Śrī Dakṣiṇāmūrti, Viṣṇu, Brahmā and Vasiṣṭha, it follows the line through Śuka and Govinda Bhagavatpāda to Śrī Ādi Śaṅkara Bhagavatpāda, and then each Jagadguru who succeeded him at Kāñcīpuram, ending with Śrī Paramaśivendra Sarasvatī, the author’s guru. The closing verse says that Sadāśiva Brahmendra composed it at the bidding of Śrī Ātmabodhendra Sarasvatī: eighty-six verses in the Vasantamālikā metre. Ātmabodhendra later wrote the commentary Suṣamā on it. With the Puṇyaśloka-mañjarī, it is one of the traditional pramāṇa texts on the lineage.

Mala

यद् अबोधवशाद् अहं ममेदं तद् इहेत्यादिरुदेति भूरिभेदः।
तद् अखण्डम् अनन्तम् अद्वितीयं परम् आनन्दमयं पदं श्रयेयम्॥१॥
वटपादपमूलपट्टभद्रं स्फुटचिन्मुद्रम् उदूढमौनमुद्रम्।
कलितेन्दुकलं कृपासमुद्रं कलये कञ्चन देशिकं विनिद्रम्॥२॥
कमलाकुचकुम्भकुङ्कुमश्रीकलितोरःस्थलम् अप्यरागयोगम्।
करवै मुरवैरिणं महान्तं करुणार्द्रं हृदये कविं पुराणम्॥३॥
गरुडाङ्कगभीरनाभिपद्मोदरभूगह्वरनिष्ठनैष्ठिकाग्र्यम्।
चतुराननम् आश्रयामि कामं चतुराम्नायवदावदं सदाऽपि॥४॥
कुशिकप्रभवास्त्रशस्त्रपालीप्रशमाचार्यकसिद्धहस्तदण्डम्।
शमवन्तम् अरुन्धतीसहायं शरणं यामि वसिष्ठम् अप्रमेयम्॥५॥
बहुमित्रसहक्षितीशपापापहसान्निध्यम् अरोध्यसत् प्रतापम्।
महद् अञ्चितमन्त्रयन्त्रशक्तिं मनसा शक्तिम् उपैमि सद् विरक्तिम्॥६॥
पवनाकुलकाशलेशकल्पं प्रभवादेव पराहताशराशम्।
प्रणमामि पराशरं मुनीशं प्रचरद् वैष्णवसंहिताप्रकाशम्॥७॥
निगमान् अपि योऽन्वशाच्चतुर्धा व्यधिताष्टादशधाऽपि यः पुराणम्।
स च सात्यवतेय ईप्सितं मे सकलाम्नायशिरोगुरुर्विधत्ताम्॥८॥
जननीजठराद् इव च्यवन् यो जगतो नाद्रवद् आत्मविद् विपद्भ्यः।
अनहन्तम् अहं तम् आत्मवन्तं भगवन्तं शुकम् आश्रये प्रशान्तम्॥९॥
अभियुञ्जद् अयार्च्यपूज्यपादान् अपलून्यादिनिषाकसिद्धनेतॄन्।
अथ गौडपदान् फणीशभाष्यप्रथमाचार्यकपण्डितान् प्रपद्ये॥१०॥
हरितल्पहराङ्घ्रिनूपुरक्ष्माधरसौमित्रिबलात्रिपुत्रलक्ष्मा।
जयताद् उपरेवम् आत्तधामा जयगोविन्दमुनिः स चन्द्रनामा॥११॥
प्रभवात् परमार्थसङ्ग्रहाच्च प्रणयस्थानम् अमुष्य सिद्धशिष्यः।
विरतक्षितिरक्षणो विरक्त्या हरिरंहो मम तृंहतां स्वशक्त्या॥१२॥
कलिना बलिनाऽखिले खिलेऽपि स्खलिते श्रौतपथेऽपथे प्रवृद्धे।
जपहोमतपस्सु नामशेषेष्वपि यातेषु सुभाषितेषु शोषम्॥१३॥
जिनबुद्धकपालिशक्तिवह्नीन्द्विनसेवासु समन्ततः श्रितासु।
शिथिले द्विजवेदवेदिवादे प्रथिते चाद्वयवेदबाह्यमोदे॥१४॥
जगद् ईक्षणविह्वलामृतान्धोनिगदव्यक्तकृपारसानुबन्धम्।
प्रणिदिश्य गुहं पुरैव गन्तुं प्रणिबन्धुं च मखान् द्विषश्च यन्तुम्॥१५॥
अवतार्य सुरान् परांश्च पूर्वं विधिविष्ण्विन्द्रमुखान् विनोदपूर्वम्।
स्वयम् अप्यवतीर्य सुत्युरार्याकमितुः श्रीशिवशर्मणो विचार्य॥१६॥
उदभूत् सदने निटालदृग् यो मदभाजां सुधियां प्रमाथयोग्ये।
शिशुरर्पयतान्मुमुक्षुभाग्यं स शुभं शङ्करदेशिकः सुभोग्यम्॥१७॥
उपनीय दिवं गते स्वताते व्यपदिश्यागमसङ्ग्रहेऽप्यतीते।
निजमातरम् अन्वमीमनद् यो नियमाप्तिं स मुदे ममास्तु सद्यः॥१८॥
प्रतिचन्द्रभवं निवृत्तिधर्मा श्रितगोविन्दमुनेरवाप्तधर्मा।
जयतात् कृतसूत्रभाष्यकर्मा स्वयम् अन्तेवसतां वितीर्णशर्मा॥१९॥
कुहनान्त्यजविश्वनाथसृष्टो द्रुहिणव्यासवरोदितानुशिष्टः।
ममतां मम तावद् एष भिन्द्यान्नमतश्चोपरतिं ददात्वनिन्द्याम्॥२०॥
अपि हालनृपालपालितं द्राग् अपहायेन्द्रहरिन्मुखं वितन्द्रम्।
श्रितमुर्मुरम् उद्धरंस्त्रिवेण्यां यतिराड् भट्टम् अघानि वो वितृण्यात्॥२१॥
पटुमण्डनमिश्रखण्डनार्थं प्रविशन् पद्मवनं नवं जयार्थी।
तम् अधृष्यगिरं विधृष्य वादैर्यतिम् आधात् स च पातु मां प्रमोदी॥२२॥
प्रविशन् बदरीम् अवाप्य सद्यः परमाचार्यपदार्चनं क्रमाद् यः।
धवलाचलम् आप्य योऽप्यमाद्यच्छिवलावण्यम् उदीक्ष्य तं प्रपद्ये॥२३॥
प्रतिपादितलिङ्गपञ्चकेऽमुं प्रणिवर्त्याशु तिरोहिते गिरीशे।
विनिवृत्य स दिग् जयप्रवृत्तो विविधैः शिष्यवरैर्विभातु चित्ते॥२४॥
कलयन् निलयं च तुङ्गभद्रातटिनीरोधसि वेधसः स्त्रिया द्राक्।
कतिचिच्छरदोऽत्यवीवहद् यो यतिराट् क्वापि मठे स मेऽस्तु सद्यः॥२५॥
अथ कान्यकुमारसन्धिसेतुस्थलिनीवैङ्कटकालहस्तियातुः।
यमिनेतुरमुष्य काञ्चियात्रा शम् इदानीं शमदं क्रियाद् विचित्रा॥२६॥
श्रितनिर्मलराजसेनचोलक्षितिपालोद्धृतविप्रदेवशालः।
वरदस्य तथाऽऽम्रनायकस्याप्युरुवेश्मद्वयकृज्जयाय मे स्यात्॥२७॥
प्रकृतिं च गुहाश्रयां महोग्रां स्वकृते चक्रवरे प्रवेश्य योऽग्रे।
अकृताश्रितसौम्यमूर्तिम् आर्यां सुकृतं नः स चिनोतु शङ्करार्यः॥२८॥
परकीयवपुःप्रवेशशैल्या स्मरतन्त्राणि विदन् वशी न लौल्यात्।
अकृतातनुभारतीं वशे यः सुकृतं मे सुतरां गुरुः स चीयात्॥२९॥
उपयात्सु बुधेषु सर्वदिग्भ्यः प्रदिशन्नाशु पराभवं य एभ्यः।
विधृताखिलवित्पदश्च काञ्च्याम् अधृतार्तिः स दिशेच्छ्रियं च काञ्चित्॥३०॥
समतिष्ठिपद् आहिमाद्रिसेव्यं क्रमशो धर्मविचारणाय दिव्यम्।
अधिकाञ्चि च शारदामठं योऽभ्यधिकं नः सुखम् आतनोतु सोऽयम्॥३१॥
पृथिवीधवपद्मपादहस्तामलकानन्दगिरीन् अतिप्रशस्तान्।
चतुरोऽकृत यश्चतुर्षु पीठेष्वतुलां नश्चतुरो गिरं स देयात्॥३२॥
परम् अन्तिकसत् सुरेश्वराद्यैः परमाद्वैतमतं स्फुटं प्रवेद्य।
परिकाञ्चिपुरं परे विलीनः परमायास्तु शिवाय सद्गुरुर्नः॥३३॥
स्थिरबोधघनप्रतापदाम्नोर्गुरुपृथ्वीधवविश्वरूपनाम्नोः।
चिरम् अर्थनयोपतुङ्गभद्रं सरसः सौतु सुरेश्वरः स भद्रम्॥३४॥
प्रणयन् लययोगम् अक्षुद् अञ्च्यं पुनराचार्यमठे निपद्य काञ्च्याम्।
भुवि यः शिवलिङ्गभूयमन्ते प्रविवान् सोऽस्तु सुखाय नः सुशान्तः॥३५॥
प्रथिते किल कामकोष्ठनाम्नि प्रथते पुण्यरसेति यत् पवित्रम्।
पदमस्य गुरोः समाधिभूमेः प्रणये मण्डनचिह्नितं निकामम्॥३६॥
जपद् इष्टदकामकोटिपीठाधिपभूमण्डलदेशिकेन्द्रपाठात्।
नरनुत्यशुचीनि निर्णिनिक्षे परहंसस्तवतोऽक्षराण्यरूक्षम्॥३७॥
सलिलाशन एव यः सलीलं विलयं प्रापिपद् आर्हतान् सुशीलः।
सुमहारफणीन्द्रयोः सदृष्टिः स हि सर्वज्ञगुरुर्ह्रियात् कुदृष्टिम्॥३८॥
यमिपञ्चकम् अञ्चितोज्ज्वलाख्यं शमितान्योक्ति च सत्यबोधमुख्यम्।
परवैभववारिविद्यम् अन्तः करवै तत् त्रितयं च चिद्घनान्तम्॥३९॥
सुमहाव्रतसार्वभौमचर्याश्रमहानाय निगूढयोगचर्यः।
शमदां मम चन्द्रशेखरेन्द्रः स मुदं पातु जगद्गुरुर्वितन्द्रः॥४०॥
फलहायनकाष्ठमौनसेवाबलहासास्पदबालमुग्धभावम्।
अजरामरम् आत्तलिङ्गभावं भज सच्चिद्घनम् अन्तरङ्ग देवम्॥४१॥
कलया मलयाद्र्यगस्त्यकूटस्थलयातूयितभैरवप्रमोटम्।
कलयाम लयाध्वलीढभानुं चलविद्याघनम् आप्तकामधेनुम्॥४२॥
गुरुमार्गगवेषणात्तवेलाचलदृष्टाग्रजशिष्टमन्त्रलोलम्।
हरपूजनपूतम् अस्तमोहं वरगङ्गाधरगीष्पतिं श्रयेऽहम्॥४३॥
कुलशेखरसाहितीप्रणेत्रे वलद् आसेतुहिमाद्रिविज्ञनेत्रे।
जरदृष्टिशकादिघृष्टिदात्रे स्थिरवर्णाश्रमधर्मसंविधात्रे॥४४॥
स्तनितं निगमेषु शङ्करेण ध्वनिम् अद्वैतम् उदस्यते चिरेण।
प्रणयानि महायतीशभूम्ने प्रणतीरुज्ज्वलशङ्करार्यनाम्ने॥४५॥
अथ गौडसदाशिवेन्द्रपादान् प्रथितान् न्यक्कृतबाह्लिकप्रवादान्।
जननक्षण एव जातबोधान् जगद् आचार्यपदान् श्रये विबाधान्॥४६॥
विवदन् धिषणेन साधु दुर्दीदिविसाह्याय समागतेन सार्धम्।
जयिजीर्णसुरेन्द्रभूमिभोगी जयतान्नः सुधिये सुरेन्द्रयोगी॥४७॥
चिरसाधितषोडशीप्रसादक्षरितश्वित्ररुजं निरस्तवादम्।
स्ववशासुविसर्गम् अर्कभृत्यं नवविद्याघनम् आश्रितोऽस्मि नित्यम्॥४८॥
घनवाग् जनिमूक एव विद्याघनकारुण्यत ऊढहृद्यविद्यः।
कलयन्नपि मेण्ठकं कवीन्द्रं कलयेन्नः स शिवानि शङ्करेन्द्रः॥४९॥
अपि यः श्रितमातृगुप्तविद्याधिपसेतुप्रवरादिसूरिहृद्याम्।
सुषमाम् अधिताहिमाद्रिभूमौ विषमादित्यनुतोऽवतात् स चामुम्॥५०॥
अनुजह्नुसुतातिवाहिताहं विधिनाऽऽराधितशङ्करं विमोहम्।
शरणं समुपैमि चन्द्रचूडं चरणप्रौढतपःपतत्रिनीडम्॥५१॥
परिपूर्णविबोधनामभाजां धुरि गोकर्णधराभुवां विराजत्।
मम मानसम् अस्यसिद्धिभूम्ना ममतार्तिं विजहातु मोदसीम्ना॥५२॥
अपि नास्तिकम् आस्तिकं दधानान् लपितैर्ज्यौतिषम् आर्यभट्टम् ऊनम्।
प्रतिषिद्धपयोधिपोतयानान् यतिसच्चित्सुखसद्गुरून् नमामि॥५३॥
समधिष्ठितकोङ्कणे चिरेण स्वधृते साधु समाधिनाऽदरेण।
निरतो नियमेन चित्सुखेऽस्मि श्रितसच्चित्सुखलक्षणे परस्मिन्॥५४॥
कृमिकीटपतङ्गसत्त्वभाषाक्रमविज्ञः स धुनोतु सत्त्वदोषान्।
रससाधनसिद्धलिङ्गरूपः स चिदानन्दघनः ससत् स्वरूपः॥५५॥
यमिधीघनचिद्विलाससाधू समहादेवसमग्रबोधबोधौ।
भवभूतिकृतार्चनौ च वन्दे सुखसद् ब्रह्मचिद् उज्ज्वलौ घनेन्द्रौ॥५६॥
स्वमठस्थम् अधीतभूरिभाषं क्रमिकार्चाहितकामदृक् प्रतोषम्।
प्रचितस्वमठालयं च सच्चिद् रुचिरानन्दघनेन्द्रम् आश्रयेऽहम्॥५७॥
अपरानपि चन्द्रशेखरेन्द्रान् विपुलक्ष्माभ्रमणे निरस्ततन्द्रान्।
शरणागतसर्वदुःखहर्तॄन् शरणं यामि कुवादिजैनजेतॄन्॥५८॥
भज रे बहुरूपचित्सुखेन्द्रं बहुशः सह्यगुहातपस्स्वतन्द्रम्।
प्रशमप्रणयात् प्रशान्तचारं परम् आनन्दयुजं च पापदूरम्॥५९॥
प्रचिते परितस्तुरुष्कचक्रे निचिते म्लेच्छगवीविभूम्नि वक्रे।
कथमप्यवताऽऽश्रितार्यवृत्तान्यथ विद्याघनमौनिनैमि तृप्तिम्॥६०॥
निजतातमृतेः परं प्रकाशे गजगर्भे त्रिशरद् विपच्यकोशे।
गमयन्तम् इवोल्बवासशेषं गणये विश्वजितः सुतं विशेषात्॥६१॥
परिवादभयात् प्रसूविसृष्टं विपिने व्याघ्रवधूभिरेव पुष्टम्।
नवशङ्करम् आदिमाच्च धृष्टं नम माध्यन्दिनिनैव बाल्यशिष्टम्॥६२॥
परम् अभ्रतनोर्गिरैव शम्भोर्वरविद्याघनविष्टरोपलम्भी।
अधिकाञ्चिपुरीमठं शुभं भोस्त्र्यधिकश्चित्त तनोतु ते विदम्भः॥६३॥
विदिशश्च दिशश्च सञ्चरन् यः प्रदिशन् भाष्यम् अदूष्यम् आस्त धन्यः।
तम् अशेषविद् आसनाधिरूढं नम भट्टोद्भटवाक्पतेः सनीडम्॥६४॥
श्रुतियुक्तिशरैः परान् प्रणिघ्नन् इति चाद्वैतसृतिं विलुप्तविघ्नाम्।
विदधत् प्रविशन् दरीं पुराणां मद् अघं हन्तु तिरोहितः स मौनी॥६५॥
सशरीरम् उपेयिवांसम् ओकः शशिचूडस्य जगद्गुरुं तम् एकम्।
अपि चीनतुरुष्कबाह्लिकाद्यैः स्वपराचार्यतया स्तुतं स्तुमोऽद्य॥६६॥
अनुपद्मपुरं चिराय तिष्ठन् ध्वनिकारादिबुधाश्रितो व्रतिष्ठः।
पुनरञ्चितकाञ्चिरस्तु पक्षे मम सच्चिच्छिखरो विलासभिक्षुः॥६७॥
अतिरूपम् अपापवृत्तमान्यं यतिताम् आश्रितम् अङ्गजं यथान्यम्।
समयोच्चयसारसावधृत्यै सुमहादेवगुरुं स्मरामि धृत्यै॥६८॥
कृतसट्टकसत्रिनाट्यबन्धव्रतयायावरराजशेखरान्ध्यम्।
हृतवन्तम् अनन्तमन्त्रशक्तिं व्रतिगङ्गाधरम् आश्रयेऽर्थ्यसूक्तिम्॥६९॥
शिवयोजितचन्द्रमौलिपूजाप्रवणं तन्नियमित्रयं महौजः।
परवस्तुविद् अस्तसम्प्रचारादरम् आस्तां परम् अद्य मे विचारे॥७०॥
कविसोमककॢप्तसेवनत्यग् भविदूरोऽद्रिगुहागृहेऽहिकृत्यः।
चिरम् आत्मनि सञ्चरन् प्रमत्तः परमाद्यः स शिवः शिवं विधत्ताम्॥७१॥
नवभोजमहीपदत्तमुक्ताशिबिकाभ्रान्तसमस्तदक्षिणाध्वा।
कलशेश्वरमन्त्रिणाऽस्तबाधं कलयन् स्वं मठम् ईड्यतां स बोधः॥७२॥
जयदेवसुमङ्खकृष्णमिश्राश्रयताम् एत्य कुमारपालमिश्रम्।
अपि हैमम् अपाकृतोक्तियोगैरुपसेव्योऽस्तु च चन्द्रचूडयोगी॥७३॥
अभिचारकगुप्तपादवादिप्रभुहर्षादिपराभवाग्रभूमिम्।
कलये हृदि संश्रितं स्वभासा विलयं चिद् वियतीह चिद्विलासम्॥७४॥
बहुधा कृतकोटिहोमलीलावभृथौ शाक्तपथाववामशीलौ।
क्रमशः प्रणतोऽस्मि पावनाख्यौ सुमहादेवसुचन्द्रशेखराख्यौ॥७५॥
हृदि सायणमाधवोपदेष्टॄन् मदिनां वादविधौ शमप्रदेष्टॄन्।
नमत श्रुतिशीलनाद् अतन्द्रान् यमिविद्याधिकतीर्थदेशिकेन्द्रान्॥७६॥
यमिषड्गवम् अप्लुतस्वदेशं शमिते म्लेच्छकुलैर्महत् प्रकाशे।
अजहत् स्वमतं जहत् प्रचारं विजयायास्तु विवेकिनाम् उदारम्॥७७॥
समुपासितनीलकण्ठमन्त्रक्रमनिर्धूतविषामयं स्वतन्त्रम्।
शिवयोगिसमाह्वयं यमीन्द्रं भवभेदाय भजाम मोदसान्द्रम्॥७८॥
लुलितागमिकच्छटोपदेशं ललितार्चाश्रितहस्तम् अस्तपाशम्।
कलिताखिलवेदशास्त्रकोशं कलये प्रत्यगितं महःप्रकाशम्॥७९॥
खलवैष्णवतैन्त्रिणीककोलाहलहेलाहितगालिरुक्तिजालैः।
शिवयन् वरदं चिरेण सौम्यः शिवकृन्मेऽस्तु स शङ्करः प्रणम्यः॥८०॥
निजनीवृद् अवग्रहेतिखेदत्यजनेपालनृपालपूज्यपादः।
स पुरो मम साधु सन्निधत्तां विपुलानन्दसदाशिवोऽप्रमत्तः॥८१॥
बहुधाऽऽहितसूत्रभाष्यशान्तिर्बहुलामोदयुतः समग्रशान्तिः।
शमलं समुदस्य शं ममालं स महादेवगुरुर्दिशेत् सलीलम्॥८२॥
सतताहितचन्द्रमौलिसेवः श्रितकाञ्चीपुर एव शुद्धभावः।
सृजतान्मम चन्द्रचूडमौनी स जयं सर्वत एव साधुमानी॥८३॥
अथ मे स सदाशिवः कृषीष्ट प्रथमं बोधपदेन तत्त्वदेष्टा।
कुशलं कुशलाग्रणीः प्रकामप्रशमोऽप्युज्ज्वलमूर्तिराप्तकामः॥८४॥
हृदये स पदं सदा विधत्तां सदयं मे प्रणुदन् प्रमादवत्ताम्।
निगमान्तगुरुः परः शिवात्मा सुगमः साधुततेर्यमी प्रशात्मा॥८५॥
यद् उदीक्षणलेशतो जनानां विदुरद्वैतमतिं द्वितां धुनानाम्।
तम् अहं परमाञ्चितं शिवेन्द्रं शमवन्तं शरणं श्रये यमीन्द्रम्॥८६॥
इति नाथनयाऽऽत्मबोधनाम्नो यतिराजस्य सदाशिवेन्द्रभूम्ना।
कलिता जयताद् वसन्तमालाषडशीत्या गुरुराजरत्नमाला॥८७॥

इति जगद्गुरुरत्नमाला सम्पूर्णा