महागणपति नवार्णवेदपाद स्तवः
श्रीकण्ठतनय श्रीश श्रीकर श्रीदलार्चित।
श्रीविनायक सर्वेश श्रियं वासय मे कुले॥१॥
गजानन गणाधीश द्विजराज-विभूषित।
भजे त्वां सच्चिदानन्द ब्रह्मणां ब्रह्मणस्पते॥२॥
णषष्ठवाच्यनाशाय रोगाटविकुठारिणे।
घृणापालितलोकाय वनानां पतये नमः॥३॥
धियं प्रयच्छते तुभ्यम् ईप्सितार्थप्रदायिने।
दीप्तभूषणभूषाय दिशां च पतये नमः॥४॥
पञ्चब्रह्मस्वरूपाय पञ्चपातकहारिणे।
पञ्चतत्त्वात्मने तुभ्यं पशूनां पतये नमः॥५॥
तटित्कोटि-प्रतीकाश-तनवे विश्वसाक्षिणे।
तपस्वि-ध्यायिने तुभ्यं सेनानिभ्यश्च वो नमः॥६॥
ये भजन्त्यक्षरं त्वां ते प्राप्नुवन्त्यक्षरात्मताम्।
नैकरूपाय महते मुष्णतां पतये नमः॥७॥
नगजावरपुत्राय सुरराजार्चिताय च।
सगुणाय नमस्तुभ्यं सुमृडीकाय मीढुषे॥८॥
महापातकसङ्घात महारणभयापह।
त्वदीय कृपया देव सर्वानव यजामहे॥९॥
नवार्णरत्ननिगमपादसम्पुटितां स्तुतिम्।
भक्त्या पठन्ति ये तेषां तुष्टो भव गणाधिप॥
॥इति श्री-महागणपति नवार्णवेदपादस्तवः सम्पूर्णः॥