गणपतिस्तवः
गर्ग ऋषिरुवाच
अजं निर्विकल्पं निराकारमेकं
निरानन्दमानन्दमद्वैतपूर्णम्।
परं निर्गुणं निर्विशेषं निरीहं
परब्रह्मरूपं गणेशं भजेम॥१॥
गुणातीतमानं चिदानन्दरूपं
चिदाभासकं सर्वगं ज्ञानगम्यम्।
मुनिध्येयमाकाशरूपं परेशं
परब्रह्मरूपं गणेशं भजेम॥२॥
जगत्कारणं कारणज्ञानरूपं
सुरादिं सुखादिं गुणेशं गणेशम्।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं
परब्रह्मरूपं गणेशं भजेम॥३॥
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं
सदा कार्यसक्तं हृदाऽचिन्त्यरूपम्।
जगत्कारणं सर्वविद्यानिदानं
परब्रह्मरूपं गणेशं नताः स्मः॥४॥
सदा सत्ययोग्यं मुदा क्रीडमानः
सुरारीन् हरन्तं जगत्पालयन्तम्।
अनेकावतारं निजज्ञानहारं
सदा विश्वरूपं गणेशं नमामः॥५॥
तमोयोगिनं रुद्ररूपं त्रिनेत्रं
जगद्धारकं तारकं ज्ञानहेतुम्।
अनेकागमैः स्वं जनं बोधयन्तं
सदा सर्वरूपं गणेशं नमामः॥६॥
तमः स्तोमहारं जनाज्ञानहारं
त्रयीवेदसारं परब्रह्मसारम्।
मुनिज्ञानकारं विदूरे विकारं
सदा ब्रह्मरूपं गणेशं नमामः॥७॥
निजैरोषधीस्तर्पयन्तं कराद्यैः
सुरौघान्कलाभिः सुधास्राविणीभिः।
दिनेशांशुसन्तापहारं द्विजेशं
शशाङ्कस्वरूपं गणेशं नमामः॥८॥
प्रकाशस्वरूपं नभो वायुरूपं
विकारादिहेतुं कलाधाररूपम्।
अनेकक्रियानेकशक्तिस्वरूपं
सदा शक्तिरूपं गणेशं नमामः॥९॥
प्रधानस्वरूपं महत्तत्त्वरूपं
धराचारिरूपं दिगीशादिरूपम्।
असत्सत्स्वरूपं जगद्धेतुरूपं
सदा विश्वरूपं गणेशं नताः स्मः॥१०॥
त्वदीये मनः स्थापयेदङ्घ्रियुग्मे
जनो विघ्नसङ्घातपीडां लभेत।
लसत्सूर्यबिम्बे विशाले स्थितोऽयं
जनो ध्वान्तपीडां कथं वा लभेत॥११॥
वयं भ्रामिताः सर्वथाऽज्ञानयोगा-
दलब्धास्तवाङ्घ्रिं बहून् वर्षपूगान्।
इदानीमवाप्तास्तवैव प्रसादात्
प्रपन्नान् सदा पाहि विश्वम्भराद्य॥१२॥
एवं स्तुतो गणेशस्तु सन्तुष्टोऽभून्महामुने।
कृपया परयोपेतोऽभिधातुमुपचक्रमे॥
॥इति श्रीमद् गर्गऋषिकृतो श्री-गणपतिस्तवः सम्पूर्णः॥