स्तोत्रसंहिताStotraSamhita
Stotra · Other

परब्रह्म-प्रातः स्मरण-स्तोत्रम्

Parabrahma-prātaḥ Smaraṇa-stotram

Pratah Smaranam

प्रातः स्मरामि हृदि संस्फुरदात्मतत्वं
सच्चित् सुखं परमहंसगतिं तुरीयम्।
यत् स्वप्नजागरसुषुप्तिमवैति नित्यं
तद् ब्रह्म निष्कलमहं न च भूतसन्धः॥१॥
प्रातर्भजामि मनसा वचसामगम्यं
वाचो विभान्ति निखिला यदनुग्रहेण।
यं नेति नेति वचनैर्निगमा अवोचं-
स्तं देवदेवमजमच्युतमाहुरग्र्यम्॥२॥
प्रातर्नमामि तमसः परमर्कवर्णं
पूर्णं सनातनपदं पुरूषोत्तमाख्यम्।
यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्ज्वां भुजङ्गम इव प्रतिभासितं वै॥३॥
श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम्।
प्रातः काले पठेद्यस्तु स गच्छेत्परमं पदम्॥४॥