चिरञ्जीविस्तोत्रम्
अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः
कृपः परशुरामश्च सप्तैते चिरञ्जीविनः।
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमं
जीवेद् वर्षशतं प्राज्ञ अपमृत्युविवर्जितः॥
पञ्चकन्यास्मरणम्
अहल्या द्रौपदी सीता तारा मन्दोदरी तथा।
पञ्चकन्याः स्मरेन्नित्यं महापातकनाशनम्॥
साम्बशिव-स्मरणम्
शिवनामनि भावितेऽन्तरङ्गे
महति ज्योतिषि मानिनीमयार्धे।
दुरितान्यपयान्ति दूरदूरे
मुहुरायान्ति महान्ति मङ्गलानि॥
हरि-स्मरणम्
स्मृते सकलकल्याणभाजनं यत्र जायते।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम्॥
चक्षुरारोग्य-श्लोकः
शर्यातिं च सुकन्यां च च्यवनं शक्रमश्विनौ।
भुक्तमात्रे स्मरेद् यस्तु चक्षुस्तस्य न हीयते॥
भागवतस्मरणम्
पाण्डवा ऊचुः
प्रह्लाद-नारद-पराशर-पुण्डरीक-
व्यासाम्बरीष-शुक-शौनक-भीष्म-दाल्भ्यान्।
रुक्माङ्गदार्जुन-वसिष्ठ-विभीषणादीन्
पुण्यानिमान् परमभागवतान् समरामि॥
गो-वन्दनम्
गां च दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम्।
प्रदक्षिणी कृता तेन सप्तद्वीपा वसुन्धरा॥
सर्वकामदुघे देवि सर्वतीर्थाभिषेचिनी।
पावने सुरभिश्रेष्ठे देवि तुभ्यं नमोऽस्तु ते॥
❀
तुलसी-वन्दनम्
पापानि यानि रविसूनुपटस्थितानि
गो-ब्रह्म-बाल-पितृ-मातृ-वधादिकानि।
नश्यन्ति तानि तुलसीवनदर्शनेन
गोकोटिदानसदृशे फलमाशु च स्यात्॥१॥
(तुलसीवनगमने प्रोक्तव्यम्)
या दृष्टा निखिलाघसङ्घशमनी स्पृष्टा वपुः पावनी
रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी।
प्रत्यासत्ति विधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः॥२॥
(तुलसी-जल-प्रोक्षणम्)
ललाटे यस्य दृश्येत तुलसीमूलमृत्तिका।
यमस्तं नेक्षितुं शक्तः किमु दूता भयङ्कराः॥३॥
(मृत्तिका-धारणम्)
तुलसीकाननं यत्र यत्र पद्मवनानि च।
वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः॥४॥
पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा।
वासुदेवादयो देवा वसन्ति तुलसीवने॥५॥
(प्रदक्षिणम्)
तुलसी श्रीसखि शुभे पापहारिणि पुण्यदे।
नमस्ते नारदनुते नारायणमनःप्रिये॥६॥
(नमस्कारः)
श्रीतुलसीषोडशकनामस्तोत्रम्
तुलसी श्रीमहालक्ष्मीर्विद्याऽविद्या यशस्विनी।
धर्म्या धर्मावनासक्ता पद्मिनी श्रीर्हरिप्रिया॥
लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला।
षोडशैतानि नामानि तुलस्याः कीर्तयेन्नरः।
लभते सुतरां भक्तिम् अन्ते विष्णुपदं लभेत्॥
❀
अर्जुन-नामानि (विराटपर्वान्तर्गतम्)
अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः।
बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः॥
❀
यमधर्मराजस्य १४ नामानि
यमाय धर्मराजाय मृत्यवे चान्तकाय च।
वैवस्वताय कालाय सर्वभूतक्षयाय च॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः॥
❀