गुरुपरम्परा-स्तुतिः
॥ॐ श्री-गणेशाय नमः॥
॥ॐ श्री-गुरुभ्यो नमः॥
॥हरिः ॐ॥
नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम्।
श्री-शङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यं
तं तोटकं वार्तिककारमन्यानस्मद्गुरून् सन्ततमानतोऽस्मि॥
श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम्।
नमामि भगवत्पादशङ्करं लोकशङ्करम्॥
अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम्।
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदाऽन्वहम्॥
देवे देहे च देशे च भक्त्यारोग्य-सुख-प्रदम्।
बुध-पामर-सेव्यं तं श्री-जयेन्द्रं नमाम्यहम्॥
नमामः शङ्करान्वाख्य-विजयेन्द्रसरस्वतीम्।
श्रीगुरुं शिष्टमार्गानुनेतारं सन्मतिप्रदम्॥
सत्यनारायणक्षेत्रात् सत्यव्रतमुपागतम्।
आश्रये कामकोटीशं सत्यश्रीचन्द्रशेखरम्॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
ऐङ्कार-ह्रीङ्कार-रहस्ययुक्त-
श्रीङ्कार-गूढार्थ-महाविभूत्या।
ओङ्कार-मर्म-प्रतिपादिनीभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्॥
अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः॥