ध्यान-स्तोत्राणि
गणेश-ध्यानम्
ओङ्कार-सन्निभमिभाननमिन्दुभालम्
मुक्ताग्रबिन्दुममलद्युतिमेकदन्तं।
लम्बोदरं कलचतुर्भुजमादिदेवम्
ध्यायेन्महागणपतिं मतिसिद्धिकान्तम्॥
विष्णु-ध्यानम्
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥
लक्ष्मी-ध्यानम्
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं
दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम्।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम्॥
राम-ध्यानम्
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम्।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम्॥
वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम्॥
सीता-ध्यानम्
वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना
या विप्राधिपयानरम्यनयना या विप्रपालानना।
विद्युत्पुञ्जविराजमानवसना भक्तार्तिसङ्खण्डना
श्रीमद्राघवपादपद्मयुगलन्यस्तेक्षणा साऽवतु॥
हनुमत्-ध्यानम्
उष्ट्रारूढ-सुवर्चलासहचरन् सुग्रीवमित्राञ्जना-
सूनो वायुकुमार केसरितनूजाऽक्षादिदैत्यान्तक।
सीतशोकहराग्निनन्दन सुमित्रासम्भवप्राणद
श्रीभीमाग्रज शम्भुपुत्र हनुमान् सूर्यास्य तुभ्यं नमः॥
खड्गं खेटक-भिण्डिपाल-परशुं पाश-त्रिशूल-द्रुमान्
चक्रं शङ्ख-गदा-फलाङ्कुश-सुधाकुम्भान् हलं पर्वतम्।
टङ्कं पर्वतकार्मुकाहिडमरूनेतानि दिव्यायुधान्
एवं विंशतिबाहुभिश्च दधतं ध्यायेद्धनूमत्प्रभुम्॥
सदाशिव-ध्यानम्
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम्।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्॥
सुब्रह्मण्य-ध्यानम्
सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिर्-
दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम्।
अम्भोजाभय-शक्ति-कुक्कुटधरं रक्ताङ्गरागोज्ज्वलं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम्॥
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं
वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम्।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा
ध्यायेदीप्सित-सिद्धिदं शिवसुतं स्कन्दं सुराराधितम्॥
वल्ली-ध्यानम्
श्यामां पङ्कजधारिणीं मणिलसत् ताटङ्ककर्णोज्ज्वलां
दक्षे लम्बकरां किरीटमकुटां तुङ्गस्तनोत्कञ्चुकाम्।
अन्योन्येक्षणसंयुगां शरवणोद्भूतस्य सव्ये स्थितां
गुञ्जामाल्यधराम् प्रवालवसनां वल्लीश्वरीं भावये॥
देवसेना-ध्यानम्
पीतामुत्फलधारिणीं शशिसुतां पीताम्बरालङ्कृतां
वामे लम्बकरां महेन्द्रतनयां मन्दारमालाधराम्।
दैवार्चितपादपद्मयुगलां स्कन्दस्य वामे स्थितां
सेनां दिव्यविभूषितां त्रिनयनां देवीं त्रिभङ्गीं भजे॥
दण्डायुधपाणि-ध्यानम्
कल्पद्रुमं प्रणमतां कमलारुणाभं
स्कन्दं भुजद्वयमनामयमेकवक्त्रम्।
कात्यायनीप्रियसुतं कटिबद्धवामं
कौपीनदण्डधरदक्षिणहस्तमीडे॥
ऋग्वेद-ध्यानम्
ऋग्वेदः श्वेतवर्णः स्याद् द्विभुजो रासभाननः।
अक्षमालायुतः सौम्यः प्रीतश्चाध्ययनोद्यतः॥
यजुर्वेद-ध्यानम्
अजास्यः पीतवर्णः स्याद्यजुर्वेदोऽक्षसूत्रधृक्।
वामे कुलिशपाणिस्तु भूतिदो मङ्गलप्रदः॥
सामवेद-ध्यानम्
नीलोत्पलदलाभासः सामवेदो हयाननः।
अक्षमालान्वितो दक्षे वामे कम्बुधरः स्मृतः॥
अथर्ववेद-ध्यानम्
अथर्वणाभिधो वेदो धवलो मर्कटाननः।
अक्षसूत्रं च खट्वाङ्गं बिभ्राणो यजनप्रियः॥
❀