शिवसहस्रनामस्तोत्रम् (विष्णुकृतम्)

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम्।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्॥

ऋषय ऊचुः

कथं देवेन वै सूत देवदेवान्महेश्वरात्।
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना॥१॥

सूत उवाच

देवानामसुरेन्द्राणामभवच्च सुदारुणः।
सर्वेषामेव भूतानां विनाशकरणो महान्॥२॥
ते देवाः शक्तिमुसलैः सायकैर्नतपर्वभिः।
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः॥३॥
पराजितास्तदा देवा देवदेवेश्वरं हरिम्।
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः॥४॥
तान् समीक्ष्याथ भगवान् देवदेवेश्वरो हरिः।
प्रणिपत्य स्थितान् देवानिदं वचनमब्रवीत्॥५॥
वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः।
समागताः ससन्तापा वक्तुमर्हथ सुव्रताः॥६॥
तस्य तद् वचनं श्रुत्वा तथाभूताः सुरोत्तमाः।
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे॥७॥
भगवन् देवदेवेश विष्णो जिष्णो जनार्दन।
दानवैः पीडिताः सर्वे वयं शरणमागताः॥८॥
त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम।
त्वमेव परमात्मा हि त्वं पिता जगतामपि॥९॥
त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन।
हन्तुमर्हसि तस्मात् त्वं दानवान् दानवार्दन॥१०॥
दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः।
कौबेरैश्चैव सौम्यैश्च नैर्ऋत्यैर्वारुणैर्दृढैः॥११॥
वायव्यैश्च तथाऽऽग्नेयैरेशानैर्वार्षिकैः शुभैः।
सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः॥१२॥
अवध्या वरलाभात् ते सर्वे वारिजलोचन।
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम्॥१३॥
कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो।
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः॥१४॥
पुरा जलन्धरं हेतुं निर्मितं त्रिपुरारिणा।
रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि॥१५॥
तस्मात् तेन निहन्तव्या नान्यैः शस्त्रशतैरपि।
ततो निशम्य तेषां वै वचनं वारिजेक्षणः॥१६॥

वाचस्पतिमुखानाह स हरिश्चक्रभृत् स्वयम्।

श्रीविष्णुरुवाच

भो भो देवा महादेवं सर्वैर्देवैः सनातनैः॥१७॥

सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम्।
देवा जलन्धरं हन्तुं निर्मितं हि पुरारिणा॥१८॥
लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान्।
सर्वान् धुन्धुमुखान् दैत्यान् अष्टषष्टिशतान् सुरान्॥१९॥

सबान्धवान् क्षणादेव युष्मान् सन्तारयाम्यहम्।

सूत उवाच

एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन्॥२०॥

सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम्।
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे॥२१॥
मेरुपर्वतसङ्काशं निर्मितं विश्वकर्मणा।
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः॥२२॥
स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम्।
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च॥२३॥
देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम्।
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम्॥२४॥
देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम्।
प्रतिनाम स पद्मेन पूजयामास शङ्करम्॥२५॥
अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः।
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम्॥२६॥

तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम्।

न्यासः

अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य
श्रीविष्णुः ऋषिः, अनुष्टुप् छन्दः, परमात्मा श्रीशङ्करो देवता।

ध्यानम्

मूले कल्पद्रुमस्य द्रुतकनकनिभं चारुपद्मासनस्थं
वामाङ्कारूढगौरीनिबिडकुचभराभोगगाढोपगूढम्।
नानालङ्कारकान्तं वरपरशुमृगाभीतिहस्तं त्रिनेत्रं
वन्दे बालेन्दुमौलिं गजवदनगुहाश्लिष्टपार्श्वं महेशम्॥

स्तोत्रम्

श्रीविष्णुरुवाच

भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः।
अर्थितव्यः सदाचारः सर्वशम्भुमहेश्वरः॥१॥
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात्।
वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः॥२॥
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः।
सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः॥३॥
चन्द्रापीडश्चन्द्रमौलिर्विद्वान् विश्वामरेश्वरः।
वेदान्तसारसन्दोहः कपाली नीललोहितः॥४॥
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः।
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः॥५॥
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः।
वामदेवो महादेवः पाण्डुः परिदृढोऽदृढः॥६॥
विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः।
सर्वप्रणयसंवादी वृषाङ्को वृषवाहनः॥७॥
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः।
तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी॥८॥
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः।
उन्मत्तवेषश्चक्षुष्यो दुर्वासाः स्मरशासनः॥९॥
दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः।
अनादिमध्यनिधनो गिरिशो गिरिबान्धवः॥१०॥
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः।
सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी॥११॥
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः।
धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित्॥१२॥
उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः।
दान्तोदयाकरो दक्षः कपर्दी कामशासनः॥१३॥
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः।
लोककर्ता भूतपतिर्महाकर्ता महौषधी॥१४॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।
नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी॥१५॥
सोमपोऽमृतपः सोमो महानीतिर्महामतिः।
अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः॥१६॥
लोककारो वेदकारः सूत्रकारः सनातनः।
महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः॥१७॥
पिनाकपाणिर्भूर्देवः स्वस्तिदः स्वस्तिकृत् सदा।
त्रिधामा सौभगः शर्वसर्वज्ञः सर्वगोचरः॥१८॥
ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः।
शाखो विशाखो गोशाखः शिवो नैकः क्रतुः समः॥१९॥
गङ्गाप्लवोदको भावः सकलः स्थपतिस्थिरः।
विजितात्मा विधेयात्मा भूतवाहनसारथिः॥२०॥
सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः।
कामदेवः कामपालो भस्मोद्धूलितविग्रहः॥२१॥
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः।
समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः॥२२॥
चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः।
दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः॥२३॥
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः।
शुभाङ्गो लोकसारङ्गो जगदीशोऽमृताशनः॥२४॥
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः।
हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः॥२५॥
महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः।
व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः॥२६॥
अमृताङ्गोऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः।
पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः॥२७॥
सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः।
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः॥२८॥
आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः।
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः॥२९॥
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः।
अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः॥३०॥
अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः।
वीतरागो विनीतात्मा तपस्वी भूतभावनः॥३१॥
उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः।
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः॥३२॥
तपःस्वी तारको धीमान् प्रधानप्रभुरव्ययः।
लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः॥३३॥
वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः।
चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः॥३४॥
भक्तिगम्यः परब्रह्ममृगबाणार्पणोऽनघः।
अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः॥३५॥
सर्वकर्माचलस्त्वष्टा मङ्गल्यो मङ्गलावृतः।
महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः॥३६॥
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः।
संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः॥३७॥
अजः सर्वेश्वरः स्निग्धो महारेता महाबलः।
योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः॥३८॥
वसुर्वसुमनाः सत्यसर्वपापहरो हरः।
अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान्॥३९॥
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः।
भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः॥४०॥
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः।
कालयोगी महानादो महोत्साहो महाबलः॥४१॥
महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः।
निशाचरः प्रेतचारिमहाशक्तिर्महाद्युतिः॥४२॥
अनिर्देश्यवपुः श्रीमान् सर्वहार्यमितो गतिः।
बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः॥४३॥
ओजस्तेजोद्युतिकरो नर्तकः सर्वकामकः।
नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः॥४४॥
बुद्धस्पष्टाक्षरो मन्त्रः सन्मानः सारसम्प्लवः।
युगादिकृद् युगावर्तो गम्भीरो वृषवाहनः॥४५॥
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः।
अपां निधिरधिष्ठानविजयो जयकालवित्॥४६॥
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः।
विरोचनः सुरगणो विद्येशो विबुधाश्रयः॥४७॥
बालरूपो बलोन्माथी विवर्तो गहनो गुरुः।
करणं कारणं कर्ता सर्वबन्धविमोचनः॥४८॥
विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः।
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः॥४९॥
दुन्दुभो ललितो विश्वो भवात्मात्मनि संस्थितः।
वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट्॥५०॥
वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः।
आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः॥५१॥
वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः।
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः॥५२॥
मघवान् कौशिको गोमान् विश्रामः सर्वशासनः।
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत्॥५३॥
अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी।
परमार्थः परमयः शम्बरो व्याघ्रकोऽनलः॥५४॥
रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः।
रविर्विरोचनः स्कन्धः शास्ता वैवस्वतोऽजनः॥५५॥
युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः।
कैलासपतिकामारिः सविता रविलोचनः॥५६॥
विद्वत्तमो वीतभयो विश्वहर्ताऽनिवारितः।
नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः॥५७॥
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः।
उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः॥५८॥
अनादिर्भूर्भुवो लक्ष्मीः किरीटित्रिदशाधिपः।
विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः॥५९॥
जननो जनजन्मादिः प्रीतिमान् नीतिमान् नयः।
विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः॥६०॥
प्रणवः सप्तधाचारो महाकायो महाधनुः।
जन्माधिपो महादेवः सकलागमपारगः॥६१॥
तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः।
ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः॥६२॥
यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः।
महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः॥६३॥
पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः।
आत्मयोनिरनाद्यन्तः षड्विंशत्सप्तलोकधृक्॥६४॥
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः।
शिशुर्गिरिरतः सम्राट्सुषेणः सुरशत्रुहा॥६५॥
अमोघोऽरिष्टमथनो मुकुन्दो विगतज्वरः।
स्वयञ्ज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः॥६६॥
पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रत्रयीतनुः।
ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिरुपप्लवः॥६७॥
भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः।
उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः॥६८॥
नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः।
पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः॥६९॥
हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः।
विष्णुर्ग्रहपतिः कृष्णः समर्थोऽर्थननाशनः॥७०॥
अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः।
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः॥७१॥
जगद्धितैषिसुगतः कुमारः कुशलागमः।
हिरण्यवर्णो ज्योतिष्मान् नानाभूतधरो ध्वनिः॥७२॥
अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः।
बृहज्ज्योतिः सुधामा च महाज्योतिरनुत्तमः॥७३॥
मातामहो मातरिश्वा नभस्वान् नागहारधृक्।
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः॥७४॥
निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः।
आत्मभूरनिरुद्धोऽत्रिज्ञानमूर्तिर्महायशाः॥७५॥
लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः।
व्यालकल्पो महाकल्पो महावृक्षः कलाधरः॥७६॥
अलङ्करिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः।
आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः॥७७॥
असंसृष्टोऽतिथिः शक्रः प्रमाथी पापनाशनः।
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः॥७८॥
जर्यो जराधिशमनो लोहितश्च तनूनपात्।
पृषदश्वो नभो योनिः सुप्रतीकस्तमिस्रहा॥७९॥
निदाघस्तपनो मेघः पक्षः परपुरञ्जयः।
मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः॥८०॥
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः।
अङ्गिरा मुनिरात्रेयो विमलो विश्ववाहनः॥८१॥
पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः।
मनोबुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः॥८२॥
तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः।
अधरोऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः॥८३॥
शैलो नगस्तनुर्दोहो दानवारिररिन्दमः।
चारुधीर्जनकश्चारुविशल्यो लोकशल्यकृत्॥८४॥
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः।
आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः॥८५॥
बहुरूपो महारूपः सर्वरूपश्चराचरः।
न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः॥८६॥
सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः।
मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः॥८७॥
पिङ्गलाक्षोऽथ हर्यक्षो नीलग्रीवो निरामयः।
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत्॥८८॥
पद्मासनः परञ्ज्योतिः परावरपरम्फलः।
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः॥८९॥
परावरज्ञो बीजेशः सुमुखः सुमहास्वनः।
देवासुरगुरुर्देवो देवासुरनमस्कृतः॥९०॥
देवासुरमहामात्रो देवासुरमहाश्रयः।
देवादिदेवो देवर्षिदेवासुरवरप्रदः॥९१॥
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः।
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः॥९२॥
ईड्योऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः।
विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः॥९३॥
शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः।
जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः॥९४॥
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः।
नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः॥९५॥
लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः।
स्ववशः सवशः स्वर्गस्वरः स्वरमयस्वनः॥९६॥
बीजाध्यक्षो बीजकर्ता धनकृद् धर्मवर्धनः।
दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः॥९७॥
श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः।
लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः॥९८॥
अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः।
वीतदोषोऽक्षयगुणो दक्षारिः पूषदन्तहृत्॥९९॥
धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः।
आधारः सकलाधारः पाण्डुराभो मृडो नटः॥१००॥
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः।
सामगेयः प्रियकरः पुण्यकीर्तिरनामयः॥१०१॥
मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः।
जीवितान्तकरो नित्यो वसुरेता वसुप्रियः॥१०२॥
सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः।
मानी मान्यो महाकालः सद्भूतिः सत्परायणः॥१०३॥
चन्द्रसञ्जीवनः शास्ता लोकगूढोऽमराधिपः।
लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः॥१०४॥
अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः।
तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः॥१०५॥
शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः।
ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः॥१०६॥
तुम्बवीणी महाकायो विशोकः शोकनाशनः।
त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धी रथाक्षजः॥१०७॥
अव्यक्तलक्षणोऽव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः।
वरशीलो वरतुलो मानो मानधनो मयः॥१०८॥
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः।
वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः॥१०९॥
कैलासशिखरावासी सर्वावासी सतां गतिः।
हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता॥११०॥
भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः।
संयोगी योगविद् ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः॥१११॥
देवप्रियो देवनाथो देवज्ञो देवचिन्तकः।
विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः॥११२॥
निर्मदो निरहङ्कारो निर्मोहो निरुपद्रवः।
दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः॥११३॥
सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः।
भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः॥११४॥
अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः।
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः॥११५॥
सत्त्ववान् सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः।
अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत्॥११६॥
सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः।
स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः॥११७॥
अपराजितः सर्वसहो विदग्धः सर्ववाहनः।
अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः॥११८॥
वराहशृङ्गधृग् वायुर्बलवानेकनायकः।
श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक्॥११९॥
श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः।
भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः॥१२०॥
अकायो भक्तकायस्थः कालज्ञानी कलावपुः।
सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः॥१२१॥
परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः।
अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा॥१२२॥
स्वभावरुद्द्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः।
शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली॥१२३॥
मेखली कवची खड्गी मायी संसारसारथिः।
अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः॥१२४॥
असङ्ख्येयोऽप्रमेयात्मा वीर्यवान् कार्यकोविदः।
वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः॥१२५॥
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः।
सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः॥१२६॥
कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः।
महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः॥१२७॥
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः।
निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः॥१२८॥
एकज्योतिर्निरातङ्को नरो नारायणप्रियः।
निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः॥१२९॥
स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः।
निरवद्यपदोपायो विद्याराशिरविक्रमः॥१३०॥
प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः।
धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः॥१३१॥
परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः।
रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलम्बनः॥१३२॥

॥इति श्रीलिङ्गमहापुराणे पूर्वभागे अष्टनवतितमे अध्याये भगवता विष्णुना प्रोक्तं श्रीशिवसहस्रनामस्तोत्रम्॥

सूत उवाच

एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम्॥१५९॥

स्नापयामास च विभुः पूजयामास पङ्कजैः।
परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः॥१६०॥
गोपयामास कमलं तदैकं भुवनेश्वरः।
हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयत्॥१६१॥
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम्।
पूजयामास भावेन नाम्ना तेन जगद्गुरुम्॥१६२॥
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम्।
तस्मादवतताराशु मण्डलात् पावकस्य च॥१६३॥
कोटिभास्करसङ्काशं जटामुकुटमण्डितम्।
ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम्॥१६४॥
शूलटङ्कगदाचक्रकुन्तपाशधरं हरम्।
वरदाभयहस्तं च द्वीपिचर्मोत्तरीयकम्॥१६५॥
इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम्।
हृष्टो नमश्चकाराशु देवदेवं जनार्दनः॥१६६॥
दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम्।
चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा॥१६७॥
ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम्।
अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले॥१६८॥
तदा प्राह महादेवः प्रहसन्निव शङ्करः।
सम्प्रेक्ष्य प्रणयाद् विष्णुं कृताञ्जलिपुटं स्थितम्॥१६९॥
ज्ञातं मयेदमधुना देवकार्यं जनार्दन।
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम्॥१७०॥
यद् रूपं भवता दृष्टं सर्वलोकभयङ्करम्।
हिताय तव यत्नेन तव भावाय सुव्रत॥१७१॥
शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम्।
शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम्॥१७२॥
शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनम्।
योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः॥१७३॥
देवैरशान्तैर्यद् रूपं मदीयं भावयाव्ययम्।
किमायुधेन कार्यं वै योद्धुं देवारिसूदन॥१७४॥
क्षमा युधि न कार्या वै योद्धुं देवारिसूदन।
अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे॥१७५॥
अकालिके त्वधर्मे च अनर्थे वाऽरिसूदन।
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम्॥१७६॥
नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम्।
तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम्॥१७७॥
दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः।
पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह॥१७८॥
वरदोऽहं वरश्रेष्ठ वरान् वरय चेप्सितान्।
भक्त्या वशीकृतो नूनं त्वयाऽहं पुरुषोत्तम॥१७९॥
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम्।
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम्॥१८०॥
नान्यमिच्छामि भक्तानामार्तयो नास्ति यत् प्रभो।
तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः॥१८१॥
पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः।
प्राह चैवं महादेवः परमात्मानमच्युतम्॥१८२॥
मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः।
भविष्यसि न सन्देहो मत्प्रसादात् सुरोत्तम॥१८३॥
यदा सती दक्षपुत्री विनिन्द्यैव सुलोचना।
मातरं पितरं दक्षं भविष्यति सुरेश्वरी॥१८४॥
दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत।
भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम्॥१८५॥
नियोगाद् ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम्।
मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि॥१८६॥
मां दिव्येन च भावेन तदा प्रभृति शङ्करम्।
द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना॥१८७॥
इत्युक्त्वाऽन्तर्दधे रुद्रो भगवान् नीललोहितः।
जनार्दनोऽपि भगवान् देवानामपि सन्निधौ॥१८८॥
अयाचत महादेवं ब्रह्माणं मुनिभिः समम्।
मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम्॥१८९॥
यः पठेच्छृणुयाद् वाऽपि श्रावयेद् वा द्विजोत्तमान्।
प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात्॥१९०॥
अश्वमेधसहस्रेण फलं भवति तस्य वै।
घृताद्यैः स्नापयेद् रुद्रं स्थाल्या वै कलशैः शुभैः॥१९१॥
नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम्।
सोऽपि यज्ञसहस्रस्य फलं लब्ध्वा सुरेश्वरैः॥१९२॥
पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै।
तथाऽस्त्विति तथा प्राह पद्मयोनिर्जनार्दनम्॥१९३॥
जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम्।
तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः।
जपेन्नाम्नां सहस्रं च स याति परमां गतिम्॥१९४॥

॥इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद् विष्णुचक्रलाभो नामाष्टनवतितमोऽध्यायः॥

दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्य
दुर्भिक्षदुर्व्यसनदुःसहदुर्यशांसि।
उत्पाततापविषभीतिम् असद्‌ग्रहार्तिं
व्याधींश्च नाशयतु मे जगतामधीशः॥

॥इति श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम्॥

❀ ❀ ❀