मातृभूतशतकम्
श्रेयांसि यं सकृदनुस्मरतां जनाना-
माविर्भवन्ति सुमहान्त्यनपायवन्ति।
तं त्वामनन्यशरणश्शरणं भजामि
श्रीमातृभूत शिव पालय मां नमस्ते॥१॥
आनन्द सच्चिदमलात्मनि शङ्करे त्वय्-
यन्तर्निषीदति भवन्तमहो विहाय।
भ्राम्यामि मोहविवशो भवशोकखिन्नः
श्रीमातृभूत शिव पालय मां नमस्ते॥२॥
मद्दाससूनुरयमित्यनुकम्पनीये
मय्यर्भके समधिरोप्य वृथाऽपराधान्।
युक्तं किमेवमधिगन्तुमुदासिकां ते
श्रीमातृभूत शिव पालय मां नमस्ते॥३॥
सौशील्यघस्मरधनस्मयनष्टसंज्ञान्
अज्ञो विषीदति यदेष वृथानुधावन्।
तत्पश्यतस्तव दया न कथं दयालो
श्रीमातृभूत शिव पालय मां नमस्ते॥४॥
भक्तिं त्वयि श्रितवतां वद कः प्रहीणः
सा वा तवाहमिति किं न सकृत्प्रपत्तिः।
किं तद्वतामनवितासि कुतोऽस्म्युपेक्ष्यः
श्रीमातृभूत शिव पालय मां नमस्ते॥५॥
दासस्तवाहमिति यः सकृदप्युपैति
रक्ष्यः स एष इति ते विधृतव्रतस्य।
रक्षोऽहमस्म्यथ कियानफलो विलम्बः
श्रीमातृभूत शिव पालय मां नमस्ते॥६॥
आज्ञापयेः कथमये तव गर्भवासं
दुःखापवर्गिणि गिरीश समाश्रयेयम्।
आस्तां सहस्रमपि नानुगुणं त्विदं ते
श्रीमातृभूत शिव पालय मां नमस्ते॥७॥
सर्वज्ञ शङ्करमहेशदयालु शब्दाः
किं पारिभाषिकतयोपगता भवन्तम्।
विज्ञापिते विलपितेऽपि किमित्युदास्से
श्रीमातृभूत शिव पालय मां नमस्ते॥८॥
हीनैः सदाधिकृतिकैरपि धृष्यमाणे
सावज्ञमेवमपदे मयि दृश्यमाने।
नेदं क्षणं क्षणमुपेक्षणमाश्रयेथाः
श्रीमातृभूत शिव पालय मां नमस्ते॥९॥
आलस्यदुर्विषयसक्त्यपलापनिद्रा-
पद्मामदाधिगदनीचसमागमादीन्।
विघ्नान् धुनीहि घटय त्वयि मेऽभिलाषं
श्रीमातृभूत शिव पालय मां नमस्ते॥१०॥
क्वासावनन्यसुलभा भवदीयता मे
भूयिष्ठनिष्ठुर विपद्विषमा क्व वृत्तिः।
एतन्न किं तव यशोभरभङ्गभीतं
श्रीमातृभूत शिव पालय मां नमस्ते॥११॥
सम्फुल्लचम्पकलसन्नवमल्लिकादि-
हृद्योपचार रुचिरं भवदर्चनं मे।
पाण्योस्तरङ्गय निरन्तरमन्तरात्मन्
श्रीमातृभूत शिव पालय मां नमस्ते॥१२॥
दारैः सुतैश्शुभतमैर्द्रविणैः प्रशान्तैः
स्वर्गापवर्गफलसिद्धिभिरभ्युपेताः।
नन्दन्ति ते करुणया किमसाध्यमस्याः
श्रीमातृभूत शिव पालय मां नमस्ते॥१३॥
कालं कियन्तमघदन्तुरमन्तरङ्गं
त्वच्चिन्तनं तनितुमक्षममीक्षसे त्वम्।
त्वद्भक्तये स्पृहयतश्शिव मे दयस्व
श्रीमातृभूत शिव पालय मां नमस्ते॥१४॥
वित्तस्मयान्ध गृहकानन सम्प्रचार
धौरेयभावमवधूय कदा मदङ्घ्री।
स्तां त्वत्प्रदक्षिणविधौ करुणावशात्ते
श्रीमातृभूत शिव पालय मां नमस्ते॥१५॥
स्यात्त्वत्पदं विदलदम्बुजसौरभश्री-
विश्रामसीमभिरुदञ्चितवाक्प्रपञ्चैः।
स्तोत्रैर्विभो मम कदा नु सदानुबन्धि
श्रीमातृभूत शिव पालय मां नमस्ते॥१६॥
पादौ प्रदक्षिणविधौ भवदर्चनेषु
पाणी स्तवेषु फणितीरपि मेऽन्तरात्मन्।
ध्याने मनश्च विनियुङ्क्ष्व दयस्व मङ्क्षु
श्रीमातृभूत शिव पालय मां नमस्ते॥१७॥
मूढोऽपटुर्भवदुपश्रयणक्रमेषु
रूढोपतापविततिर्विपदां कदम्बैः।
सीमा तृषामहमतोऽस्मि तवानुकम्प्यः
श्रीमातृभूत शिव पालय मां नमस्ते॥१८॥
अम्बेयमप्रतिहतप्रतिपत्तिशक्तिः
सर्वज्ञता च भवतो भुवने निरूढा।
भूतिश्च वां निरवधिस्तनयस्तु सोऽहं
श्रीमातृभूत शिव पालय मां नमस्ते॥१९॥
पुत्रादयो न सुखयन्ति हि भावभेदात्
सोपाधिकप्रणयसम्भ्रमिभिः किमेतैः।
माता पिता च निरुपाधिकृपानिधिस्त्वं
श्रीमातृभूत शिव पालय मां नमस्ते॥२०॥
उद्गद्गदस्वनगलं गलदम्बुनेत्रं
रोमाञ्चकञ्चुकितमञ्चितघर्मबिन्दु।
त्वन्नामनि श्रवणगामिनि कल्पयाङ्गं
श्रीमातृभूत शिव पालय मां नमस्ते॥२१॥
दुर्लभ्यदुर्विपरिणत्यसुखानुबन्धि-
विप्लावितेषु विषयेषु वृथा निपात्य।
मां खेदयन्न कथमुद्वहसेऽनुकम्पां
श्रीमातृभूत शिव पालय मां नमस्ते॥२२॥
कन्दर्पकोटिशतसुन्दरमिन्दुरेखा-
चूडं दरस्मितपरिस्फुरदाननेन्दुम्।
कान्तं नगेन्द्रसुतया कलये भवन्तं
श्रीमातृभूत शिव पालय मां नमस्ते॥२३॥
सृष्टौ स्थितावपि लयेऽस्ति तव प्रभुत्वं
दुःखे तु मे द्वितयगोचरमेव दृश्यम्।
व्यङ्क्तुं तदन्तविषयं तव को विलम्बः
श्रीमातृभूत शिव पालय मां नमस्ते॥२४॥
मन्दस्मितैर्दिशि दिशि स्फुरदिन्दुचूडैः
गौरीसखैः स्फटिकगौर मनोहराङ्गैः।
त्वद्विग्रहैः कबलयाविरतं मनो मे
श्रीमातृभूत शिव पालय मां नमस्ते॥२५॥
प्रेमातिरेकशिशिरां त्वदपाङ्गधाराम्
आनन्दसिन्धुवलमानतरङ्गरेखाम्।
सञ्चारयन्मयि सहाम्बिकया दयेथाः
श्रीमातृभूत शिव पालय मां नमस्ते॥२६॥
भ्रूकिङ्करास्तव विरिञ्चपुरन्दराद्याः
कस्त्वां विरोत्स्यति निरोत्स्यति किं ममैनः।
दैन्यं ततो न बलवत् किमु दीनबन्धो
श्रीमातृभूत शिव पालय मां नमस्ते॥२७॥
अन्वेति शङ्कर न यं करुणाङ्कुरस्ते
कस्तं विलोकयतु जल्पतु को धिनोतु।
केयं विभो विमुखता मयि किङ्करेऽस्मिन्
श्रीमातृभूत शिव पालय मां नमस्ते॥२८॥
भान्तं भवन्तमनघं मणिभूषणौघैः
भान्त्योमया विमलविद्रुमपाटलाङ्ग्या।
शृङ्गारिताङ्कमुपयामि शशाङ्कगौरं
श्रीमातृभूत शिव पालय मां नमस्ते॥२९॥
मन्दस्मितैः करुणया शिशिरैः कटाक्षैः
प्रेमातिरेकमधुरैरपि चाभिलापैः।
आनन्दयिष्यसि कदा नु सहाम्बया त्वं
श्रीमातृभूत शिव पालय मां नमस्ते॥३०॥
गोपायितेति कुलदैवतमित्यजस्रं
विस्रम्भतोऽर्पितभरं त्वयि दीनबन्धो।
मामीक्षसे न कृपया यदि किं करोमि
श्रीमातृभूत शिव पालय मां नमस्ते॥३१॥
एकं सकृद्यदलसो न पुराऽभजं त्वां
नानादुरीशसतताश्रयदुर्विपाकः।
तस्यै न सोऽयमधुनाऽतिधुनाति चेतः
श्रीमातृभूत शिव पालय मां नमस्ते॥३२॥
एषा सुगन्धिचिकुरा जननी पिता त्वं
का ते सुते मयि विभो करुणा प्रहाणिः।
किञ्चापि सा न खलु सार्द्रहृदो जनन्याः
श्रीमातृभूत शिव पालय मां नमस्ते॥३३॥
त्वत्संविदा तरति शोकमिति श्रुतीनां
भावो भवोन्नतिविधायि तवाभिधानम्।
शोकापहं तदहमीश समाश्रयामि
श्रीमातृभूत शिव पालय मां नमस्ते॥३४॥
त्वन्नामकीर्तनमघापहमाशयेन
शंसन् पुराणनिकरो न किलार्थवादः।
तत्संश्रयोऽहमकृपास्पदमस्मि किं ते
श्रीमातृभूत शिव पालय मां नमस्ते॥३५॥
कर्मानुरोधि फलमित्यवगम्यमाने
ह्येनोहृतौ शुभविधौ च पटीयसस्ते।
कर्मेति कं प्रति तु वञ्चनचातुरीयं
श्रीमातृभूत शिव पालय मां नमस्ते॥३६॥
उत्सङ्गसीमनि सुगन्धिकचां निषण्णाम्
उल्लासयन् कुचतटीनखरावमर्शैः।
आभासि शङ्कर निरन्तरमन्तरङ्गे
श्रीमातृभूत शिव पालय मां नमस्ते॥३७॥
मन्देतरैरखिलमान्तरमन्धकारं
माणिक्यभूषणमहोर्मिभिरंशुजालैः।
धुन्वन्वपुस्तव विभासय मानसे मे
श्रीमातृभूत शिव पालय मां नमस्ते॥३८॥
अन्तर्वसद्भवदुदारपदारविन्द
सन्दर्शनाय मम तत्प्रतिरोधकं द्राक्।
अंहः कवाटपटलं विघटय्य देव
श्रीमातृभूत शिव पालय मां नमस्ते॥३९॥
चेतो मम त्वदनुचिन्तनबद्धतृष्णं
मुष्णन्ति तच्च विषया मुहुरेधितार्थाः।
विघ्नान् जहि त्वयि विजृम्भय भक्तियोगं
श्रीमातृभूत शिव पालय मां नमस्ते॥४०॥
दृक्कूणितेन जगतः खलु सृष्टिरेषा
तेनैव तेऽवनलयौ भुवने निरूढौ।
तेनैव संहर ममाघततिं दयालो
श्रीमातृभूत शिव पालय मां नमस्ते॥४१॥
अङ्गं शिरीषमृदुलं परुषैर्ममाश्म-
प्रायैर्वचोभिरभिपीडितमीडनार्थे।
यत्तावकं तमपराधमिमं सहस्व
श्रीमातृभूत शिव पालय मां नमस्ते॥४२॥
मन्दस्मितैर्भ्रुकुटिभिर्मधुरैः कटाक्षैः
वामभ्रुवां नवनवैश्च वपुर्विलासैः।
त्वां नोऽभजं तरलितस्तदिदं सहस्व
श्रीमातृभूत शिव पालय मां नमस्ते॥४३॥
मन्दस्मितं मदनसुन्दरमिन्दुचूडम्
उत्सङ्गविस्फुरदुमोरसिजस्पृशं त्वाम्।
ध्यायन्वसानि दिवसानि नयन् कदा वा
श्रीमातृभूत शिव पालय मां नमस्ते॥४४॥
पाटीरसारलहरीं तुहिनांशुधारां
सौधाकरीमपि झरीमवमन्यमानः।
त्वच्चिन्तनप्रभवनिर्वृतिभिः कदा स्यां
श्रीमातृभूत शिव पालय मां नमस्ते॥४५॥
त्वामस्म्यसावजमुपासितुमक्षमोऽहं
मोहान्धया बत धिया न यदेतदेनः।
हार्या त्वयैव कृपया मम दुर्दशेयं
श्रीमातृभूत शिव पालय मां नमस्ते॥४६॥
वित्तार्जनस्य सकलः किमसावनेहा
नेह स्थितेः फलमहो भवतो धनेहा।
इत्थं दुरीश्वरगिरां पदमस्मि दीनः
श्रीमातृभूत शिव पालय मां नमस्ते॥४७॥
सांसारिकानवधिखेदपरम्परासू-
न्मज्जन्निमज्जदिव सीदति मानसं मे।
आश्वासयाशु कृपया न किमीक्षसे त्वं
श्रीमातृभूत शिव पालय मां नमस्ते॥४८॥
लक्ष्मीपतिस्तव पदाभरणे स शेते
भिक्षाटनेन वद कं प्रतिविप्रलम्भः।
जानाम्यहं न किमशेषजगत्पतिं त्वां
श्रीमातृभूत शिव पालय मां नमस्ते॥४९॥
संसृत्युदन्वति वितन्वति दुःखमोह-
ग्राहैर्व्यथामहह मे दृढमज्जनेन।
त्वं क्रीडसीति सदृशं तव किं दयालो
श्रीमातृभूत शिव पालय मां नमस्ते॥५०॥
मात्रा सुगन्धिकचया भवता च पित्रा
युक्तः प्रसूजनकहीन इवावसीदन्।
अस्मीति वां जगदधीश्वरयोरयुक्तं
श्रीमातृभूत शिव पालय मां नमस्ते॥५१॥
मौढ्यादपाटवभरादपि पूजनं ते
नाहं तनोमि तदहं व्यथितो भवामि।
विघ्नानपास्य वितर त्वदुपासनां मे
श्रीमातृभूत शिव पालय मां नमस्ते॥५२॥
त्वद्वन्दनं ननु जगत्त्रयवन्द्यतायै
त्वत्पूजनं तु भुवनत्रयपूज्यतायै।
पुण्योच्चयेन तदिदं भवदीयता मे
श्रीमातृभूत शिव पालय मां नमस्ते॥५३॥
अल्पं महच्च सकलं फलमर्पणीयं
देव त्वयैव खलु तत्किमपीहमानः।
त्वामाश्रयाम्यगतिको वद किं तवागः
श्रीमातृभूत शिव पालय मां नमस्ते॥५४॥
कन्दर्पदर्पहरसुन्दररूपधेये
मन्दस्मिते भुवनमङ्गलनामधेये।
खेदापहे भवति खेलय मानसं मे
श्रीमातृभूत शिव पालय मां नमस्ते॥५५॥
सूर्योदये तिमिरजालमिवार्तिजालं
धावन्न किं मम विभो यदि दृक्पथे स्याः।
किं मे तथा न दयसेऽनुचितो विलम्बः
श्रीमातृभूत शिव पालय मां नमस्ते॥५६॥
त्वं त्रायसे यदि निवारयितुं क्षमः को
लभ्यं किमस्ति तव मय्यवसीदतीत्थम्।
किं हीयते मदवने तव किं विलम्बैः
श्रीमातृभूत शिव पालय मां नमस्ते॥५७॥
चन्द्रोपलामलभवत्कमनीयमूर्ति-
सम्पूजनं सुदृढभक्त्यनघोपचारैः।
ईहे सदा रचयितुं घटयाशु तन्मे
श्रीमातृभूत शिव पालय मां नमस्ते॥५८॥
संसारसिन्धुसमुदित्वरखेदमोद-
वीचीपरिभ्रमपरिश्रमनोदनं मे।
आकल्पय त्वदभिराधनहर्षभूतं
श्रीमातृभूत शिव पालय मां नमस्ते॥५९॥
भक्तिस्पृशो भवति तस्य न शर्म तेन
त्राणव्रताश्रुतिषु वा न सकृत् प्रपन्नः।
कस्मात् करोषि करुणां न मयि प्रपन्ने
श्रीमातृभूत शिव पालय मां नमस्ते॥६०॥
यन्मां न पालयसि तत्त्वदपाटवाद्वा
यद्वा मदीयदुरिताद्वद नाथ नाद्यः।
सर्वेश्वरो ननु भवानत एव नान्त्यः
श्रीमातृभूत शिव पालय मां नमस्ते॥६१॥
विश्वाधिनेतरि विपन्नजनावनस्थे
नाथे सति त्वयि न यन्मम खेदभङ्गः।
तत्ते यशोहरमतो विनिवेदयामि
श्रीमातृभूत शिव पालय मां नमस्ते॥६२॥
अस्योद्यतः समुपरोद्धुमनात्मनीनं
सत्यं भवानघफलार्त्यनुभावनासु।
नेशस्तु सोढुमियदस्म्यहमार्तबन्धौ
श्रीमातृभूत शिव पालय मां नमस्ते॥६३॥
आमज्जतः प्रतिपदं विपदम्बुराशौ
दृप्तं मम श्वसितुमप्यनधीश्वरस्य।
किं पश्यतस्तव दया न कियान् विलम्बः
श्रीमातृभूत शिव पालय मां नमस्ते॥६४॥
स्वर्धेनवो न कति नो कति कल्पवृक्षाः
भ्रूवश्यतां न कति यान्त्यपरेऽप्युदाराः।
भक्तिस्पृशां त्वयि भजे तमहं भवन्तं
श्रीमातृभूत शिव पालय मां नमस्ते॥६५॥
एनामुपप्लवभरैर्जटिलामवस्थां
प्राप्तं हि मां परिहसन्ति नितान्तमन्ये।
त्वञ्चेन्न पश्यसि दयार्द्रदृशा गतिः का
श्रीमातृभूत शिव पालय मां नमस्ते॥६६॥
श्रीशश्शरः कनकभूमिशरश्शरासो
वासस्तु रूप्यशिखरी धनदः सखा ते।
त्वामाश्रितस्य मम किन्न धुनोषि दैन्यं
श्रीमातृभूत शिव पालय मां नमस्ते॥६७॥
अत्यङ्कुरार्णमुखखेदमहार्णवेऽस्मिन्
मग्नस्य शङ्कर ममोत्तरणं प्रकल्प्य।
त्वद्पूजनं घटय सङ्क्षपितान्तरायं
श्रीमातृभूत शिव पालय मां नमस्ते॥६८॥
लोकेऽतिवर्तितुमलं तव शासनं कः
पद्मासनो भवतु पद्मविलोचनो वा।
तद्दुर्लिपिं विधिकृतामपि मे विलुम्प
श्रीमातृभूत शिव पालय मां नमस्ते॥६९॥
निःसारतामपि विदन्विषयेष्वमीषु
निःसीमसक्तिरहमेषु हि गाढमूढः।
रक्ष्यस्त्वयैव करुणानिधिना प्रसह्य
श्रीमातृभूत शिव पालय मां नमस्ते॥७०॥
मञ्चे तरङ्गितमणित्विषि पुष्पकऌप्ते
मन्दस्मितं सह कदाऽम्बिकया भवन्तम्।
पश्यामि पश्चिमतनूपहितोपबर्हं
श्रीमातृभूत शिव पालय मां नमस्ते॥७१॥
मय्यात्मनीनविमुखे मलिनस्वभावे
निर्वेदसागरनिमज्जनविप्लवेऽस्मिन्।
कस्माद् भवस्यकरुणः करुणानिधे त्वं
श्रीमातृभूत शिव पालय मां नमस्ते॥७२॥
रुद्राक्षभृद्भसितभूषणधन्यमूर्तिः
भावं वहन् प्रमुदितं भवदेकतानम्।
कालं क्षिपेयमिति साधय कामनां मे
श्रीमातृभूत शिव पालय मां नमस्ते॥७३॥
त्वं चिद्घनोऽस्यहमसौ जडिमैकसीमा
दुःखाकरः पुनरहं सुखशेवधिस्त्वम्।
युक्ता न ते स्थितिरियं तव गर्भवासे
श्रीमातृभूत शिव पालय मां नमस्ते॥७४॥
खेदं हरिष्यसि कदा शिशिरैः कटाक्षैः
मोदं करिष्यसि कदा मृदुभिर्वचोभिः।
इत्युत्सुकोऽस्मि करुणां कुरु किङ्करेऽस्मिन्
श्रीमातृभूत शिव पालय मां नमस्ते॥७५॥
पाति प्रसह्य न किमर्भकमात्मनीनं
संयोजकैर्गुरुजनः स्मर तं क्रमं त्वम्।
भक्तिं बलाद्भवति कल्पय मे दयालो
श्रीमातृभूत शिव पालय मां नमस्ते॥७६॥
सोऽहं न किञ्चिदपि साधु करोमि पापः
तुङ्गं पदं त्वभिलषामि तदप्यलज्जः।
त्वद्दातृतासदयतागरिमावमर्शी
श्रीमातृभूत शिव पालय मां नमस्ते॥७७॥
शक्तो न कश्चिदपि शासनमन्तरा ते
कः सेव्यतां त्वदितरः किमितः फलं वा।
स्वामिन्नुपैमि शरणं करणैस्त्रिभिस्त्वां
श्रीमातृभूत शिव पालय मां नमस्ते॥७८॥
मृत्युञ्जयोऽसि कमलापतिवल्लभोऽसि
तन्मृत्युदैन्यविपदोरपदं त्वदीयम्।
त्वामाश्रितस्य मम किं सदृशी दशेयं
श्रीमातृभूत शिव पालय मां नमस्ते॥७९॥
किं जामिता न भवतो मम दुःखधारा-
निर्मातुरस्मृतिपदं किमुपांशुयाजः।
कस्मात्प्रभो किमपि शर्म न किं विधत्से
श्रीमातृभूत शिव पालय मां नमस्ते॥८०॥
क्वाहं क्व चोन्नतपदस्पृहयालुतेय-
मात्मैव मामपहसत्यधुना तथाऽपि।
त्वत्संश्रये सति किमस्ति दुरापमीश
श्रीमातृभूत शिव पालय मां नमस्ते॥८१॥
कस्याग्रतः प्रकटयानिरदानकाण्डे
कं हर्षयाणि नुतिभिः कमुपाश्रयाणि।
मोघः श्रमेषु निपतेयमतो दयेथाः
श्रीमातृभूत शिव पालय मां नमस्ते॥८२॥
किं विद्यया किमु धनेन किमात्मजैर्वा
किं जायया किमितरैस्त्वयि चेन्न चेतः।
आनन्दशेवधिमतस्त्वयि देहि भक्तिं
श्रीमातृभूत शिव पालय मां नमस्ते॥८३॥
दासोऽस्मि दैन्यविवशस्त्वयि सर्वलोक-
साम्राज्यसम्पदमकम्पितमश्नुवाने।
यत्तन्न ते समुचितं विमृश प्रसीद
श्रीमातृभूत शिव पालय मां नमस्ते॥८४॥
त्वामाश्रितस्त्वदितराश्रयदैन्यभङ्गम्
अङ्गीकरोमि जगदीश कथं कथं वा।
त्वां नायशः स्पृशतु तत्त्यज मय्युपेक्षां
श्रीमातृभूत शिव पालय मां नमस्ते॥८५॥
श्रान्तं वपुर्दुरधिपाश्रयधावनान्मे
श्रान्तं वचो दुरधिपस्तुतिधोरणीभिः।
क्रान्तं मनो दुरधिपाश्रयचिन्तयैव
श्रीमातृभूत शिव पालय मां नमस्ते॥८६॥
हेमस्फुरत्तनुतरङ्गितकान्तिधारा-
सम्प्लाव्यमानमणिभूषणदिव्यभासम्।
मन्ये भवन्तमुमया मणिहेमपीठे
श्रीमातृभूत शिव पालय मां नमस्ते॥८७॥
स्वानन्दबिन्दुलव सम्प्लवमानसर्व-
ब्रह्माण्डमण्डलमखण्डितवैभवं त्वाम्।
कस्तोषयेत्तदपि तुष्य परिभ्रमैर्मे
श्रीमातृभूत शिव पालय मां नमस्ते॥८८॥
कारुण्यनिर्भरसुधारसशीतलाभिः
काले कदा तव कटाक्षपरम्पराभिः।
कष्टां दशामुपजहानि दृढोपगूढः
श्रीमातृभूत शिव पालय मां नमस्ते॥८९॥
भक्ताभिभूत्यसहनो भवसि प्रतीतो
भक्तोऽस्म्यहं त्वदभिधाग्रहणप्रसक्तः।
तस्यास्य ते मयि कृपा न कथं विषण्णे
श्रीमातृभूत शिव पालय मां नमस्ते॥९०॥
दृक्केलयस्तव कृपारसशीकराङ्काः
यास्तासु तत्तदवनप्रवणासु चेत् स्यात्।
एका पुनर्मदवनप्रवणा क्षतिः का
श्रीमातृभूत शिव पालय मां नमस्ते॥९१॥
श्रेयो रुणद्धि यदि पापगणस्तदा त्वां
त्वन्नामकीर्तनमघक्षपणक्षमं मे।
किन्नास्ति किं न दयसे मयि हन्त खिन्ने
श्रीमातृभूत शिव पालय मां नमस्ते॥९२॥
तातप्रसूतनयदार सुहृद्भिरेवम्
अर्थोपपत्तिविरहादहहावसीदन्।
नेतुं क्षणं न निपुणोऽस्मि ततः प्रसीद
श्रीमातृभूत शिव पालय मां नमस्ते॥९३॥
श्रीशैलराजसुतया शिशिरैः कटाक्षैः
मां वीक्ष्यमाणमसकृन्मधुरस्मितेन।
सम्भावयन्मयि कदा नु दयिष्यसे त्वं
श्रीमातृभूत शिव पालय मां नमस्ते॥९४॥
पारे भवाख्यजलधेर्भगवन् कृपाकू-
पारे भवत्यवतरिष्यति मे कदा वा।
प्रेम्णा तृणीकृतपदं सकलं वितन्वन्
श्रीमातृभूत शिव पालय मां नमस्ते॥९५॥
निर्धूतदुस्तिमिरमस्तसमस्ततत्तद्-
दुर्वासनं हृदयमेतदये वितन्वन्।
अस्मिन् भविष्यसि कदा नु सुखं निषण्णः
श्रीमातृभूत शिव पालय मां नमस्ते॥९६॥
मद्वर्णनैस्तव कदाऽस्तु मनः प्रसादो
मद्दृक्पथेऽस्तु च कदा तव दिव्यमूर्तिः।
मत्कर्णगं तव वचोऽस्तु कदेति साशं
श्रीमातृभूत शिव पालय मां नमस्ते॥९७॥
कालेऽर्कनन्दन लुलायकटुस्वनोद्य-
त्कर्णज्वरापनयनैर्भवदुक्षजैर्मे।
ध्वानामृतैः किमपि शर्म विनिर्मिमाणः
श्रीमातृभूत शिव पालय मां नमस्ते॥९८॥
यं ते दया स्पृशति तन्नयनान्तदासाः
ब्रह्मादयो जगति दीनजनास्पदा सा।
दीनाग्रणीरहमतः पुनरुक्तिरेषा
श्रीमातृभूत शिव पालय मां नमस्ते॥९९॥
अन्यन्न मेऽभिमतमीश तदर्प्यतां वा
मा वेप्सितं तु तदिदं भवताऽर्पणीयम्।
यत् सर्वदा निभृतवृत्त्यभिधानमित्थं
श्रीमातृभूत शिव पालय मां नमस्ते॥१००॥
हे शङ्कर स्मरहर प्रमथाधिनाथ
मन्नाथ साम्ब शशिचूड शिव त्रिशूलिन्।
श्रीचित्सभेश करुणाकर फालनेत्र
श्रीमातृभूत शिव पालय मां नमस्ते॥१०१॥
एवं स्तवं प्रपठतां उपशृण्वताञ्चा-
रोग्यायुरच्छशिवभक्ति धनर्द्धि विद्याः।
दद्याः सुतानपि यशश्च विमुक्तिमन्ते
श्रीमातृभूत शिव पालय मां नमस्ते॥१०२॥
श्रीमातृभूत शिव चन्दनसान्द्रलिप्तां
सङ्क्ऌप्तहेमतिलकां श्रितपुष्पमाल्याम्।
अक्ष्णाऽमुना तव तनुं पिबतोऽक्ष्युदन्या
स्यान्मे यथाशु फलिनीश तथा दयेथाः॥१०३॥
मनो मे विक्रीतं तव चरणसेवां कलयितुं
कृपामूल्यं लब्धं सुरभिचिकुरे सम्प्रति मया।
न जाने तद् दुष्टं निवसति च वा धावति च वा
कृतं भूयो भूयः करतलयुगास्फालनमुमे॥१०४॥
॥इति श्रीश्रीधरवेङ्कटेशार्यविरचितं मातृभूतशतकं सम्पूर्णम्।