गकारादि श्री-गणपति सहस्रनाम-स्तोत्रम्
अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य।
दुर्वासा ऋषिः। अनुष्टुप् छन्दः। श्री-गणपतिर्देवता।
गं बीजम्। स्वाहा शक्तिः। ग्लौं कीलकम् ।
सकलाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः
ओं अङ्गुष्ठाभ्यां नमः। श्रीं तर्जनीभ्यां नमः।
ह्रीं मध्यमाभ्यां नमः। क्रीं अनामिकाभ्यां नमः।
ग्लौं कनिष्ठिकाभ्यां नमः। गं करतलकरपृष्ठाभ्यां नमः।
एवं हृदयादिन्यासः।
अथवा षड्दीर्घभाजागमितिबीजेन कराङ्गन्यासः॥
ध्यानम्
ओङ्कार-सन्निभमिभाननमिन्दुभालम्
मुक्ताग्रबिन्दुममलद्युतिमेकदन्तं।
लम्बोदरं कलचतुर्भुजमादिदेवम्
ध्यायेन्महागणपतिं मतिसिद्धिकान्तम्॥
स्तोत्रम्
ओं गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रियः।
गणनाथो गणस्वामी गणेशो गणनायकः॥१॥
गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः।
गणपोऽथ गणक्रीडो गणदेवो गणाधिपः॥२॥
गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट्।
गणराड् गणगोप्ताथ गणाङ्गो गणदैवतम्॥३॥
गणबन्धुर्गणसुहृद्गणाधीशो गणप्रथः।
गणप्रियसखः शश्वद्गणप्रियसुहृत् तथा॥४॥
गणप्रियरतो नित्यं गणप्रीतिविवर्धनः।
गणमण्डलमध्यस्थो गणकेलिपरायणः॥५॥
गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्रयः।
गण्यो गणहितो गर्जद्गणसेनो गणोद्धतः॥६॥
गणभीतिप्रमथनो गणभीत्यपहारकः।
गणनार्हो गणप्रौढो गणभर्ता गणप्रभुः॥७॥
गणसेनो गणचरो गणप्रज्ञो गणैकराट्।
गणाग्र्यो गणनामा च गणपालनतत्परः॥८॥
गणजिद्गणगर्भस्थो गणप्रवणमानसः।
गणगर्वपरीहर्ता गणो गणनमस्कृतः॥९॥
गणार्चिताङ्घ्रियुगलो गणरक्षणकृत् सदा।
गणध्यातो गणगुरुर्गणप्रणयतत्परः॥१०॥
गणागणपरित्राता गणाधिहरणोद्धुरः।
गणसेतुर्गणनुतो गणकेतुर्गणाग्रगः॥११॥
गणहेतुर्गणग्राही गणानुग्रहकारकः।
गणागणानुग्रहभूर्गणागणवरप्रदः॥१२॥
गणस्तुतो गणप्राणो गणसर्वस्वदायकः।
गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टदः॥१३॥
गणसौख्यप्रदाता च गणदुःखप्रणाशनः।
गणप्रथितनामा च गणाभीष्टकरः सदा॥१४॥
गणमान्यो गणख्यातो गणवीतो गणोत्कटः।
गणपालो गणवरो गणगौरवदायकः॥१५॥
गणगर्जितसन्तुष्टो गणस्वच्छन्दगः सदा।
गणराजो गणश्रीदो गणाभयकरः क्षणात्॥१६॥
गणमूर्धाभिषिक्तश्च गणसैन्यपुरस्सरः।
गुणातीतो गुणमयो गुणत्रयविभागकृत्॥१७॥
गुणी गुणाकृतिधरो गुणशाली गुणप्रियः।
गुणपूर्णो गुणाम्भोधिर्गुणभाग् गुणदूरगः॥१८॥
गुणागुणवपुर्गौणशरीरो गुणमण्डितः।
गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वरः॥१९॥
गुणसृष्टजगत्सङ्घो गुणसङ्घो गुणैकराट्।
गुणप्रवृष्टो गुणभूर्गुणीकृतचराचरः॥२०॥
गुणप्रवणसन्तुष्टो गुणहीनपराङ्मुखः।
गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभुः॥२१॥
गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा।
गुणप्रणयवान् गौणप्रकृतिर्गुणभाजनम्॥२२॥
गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वलः।
गुणवान् गुणसम्पन्नो गुणानन्दितमानसः॥२३॥
गुणसञ्चारचतुरो गुणसञ्चयसुन्दरः।
गुणगौरो गुणाधारो गुणसंवृतचेतनः॥२४॥
गुणकृद्गुणभृन्नित्यं गुणाग्र्यो गुणपारदृक्।
गुणप्रचारी गुणयुग् गुणागुणविवेककृत्॥२५॥
गुणाकरो गुणकरो गुणप्रवणवर्धनः।
गुणगूढचरो गौणसर्वसंसारचेष्टितः॥२६॥
गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित्।
गुणहारी गुणकलो गुणसङ्घसखः सदा॥२७॥
गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः।
गुणगर्वधरो गौणसुखदुःखोदयो गुणः॥२८॥
गुणाधीशो गुणलयो गुणवीक्षणलालसः।
गुणगौरवदाता च गुणदाता गुणप्रदः॥२९॥
गुणकृद्गुणसम्बन्धो गुणभृद्गुणबन्धनः।
गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कटः॥३०॥
गुणचक्रधरो गौणावतारो गुणबान्धवः।
गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालयः॥३१॥
गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः।
गुणयायी गुणाधायी गुणपो गुणपालकः॥३२॥
गुणाहृततनुर्गौणो गीर्वाणो गुणगौरवः।
गुणवत्पूजितपदो गुणवत्प्रीतिदायकः॥३३॥
गुणवद्गीतकीर्तिश्च गुणवद् बद्धसौहृदः।
गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः॥३४॥
गुणवद्गुणसन्तुष्टो गुणवद्रचितस्तवः।
गुणवद्रक्षणपरो गुणवत्प्रणयप्रियः॥३५॥
गुणवच्चक्रसञ्चारो गुणवत्कीर्तिवर्धनः।
गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः॥३६॥
गुणवत्पोषणकरो गुणवच्छत्रुसूदनः।
गुणवत्सिद्धिदाता च गुणवद्गौरवप्रदः॥३७॥
गुणवत्प्रवणस्वान्तो गुणवद्गुणभूषणः।
गुणवत्कुलविद्वेषिविनाशकरणक्षमः॥३८॥
गुणिस्तुतगुणो गर्जप्रलयाम्बुदनिःस्वनः।
गजो गजपतिर्गर्जद्गजयुद्धविशारदः॥३९॥
गजास्यो गजकर्णोऽथ गजराजो गजाननः।
गजरूपधरो गर्जद्गजयूथोद्धुरध्वनिः॥४०॥
गजाधीशो गजाधारो गजासुरजयोद्धुरः।
गजदन्तो गजवरो गजकुम्भो गजध्वनिः॥४१॥
गजमायो गजमयो गजश्रीर्गजगर्जितः।
गजामयहरो नित्यं गजपुष्टिप्रदायकः॥४२॥
गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिपः।
गजमुख्यो गजकुलप्रवरो गजदैत्यहा॥४३॥
गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृतिः।
गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभुः॥४४॥
गजमत्तो गजेशानो गजेशो गजपुङ्गवः।
गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत्॥४५॥
गजच्छन्नो गजाग्रस्थो गजयायी गजाजयः।
गजराड्गजयूथस्थो गजगञ्जकभञ्जकः॥४६॥
गर्जितोज्ञितदैत्यासुर्गर्जितत्रातविष्टपः।
गानज्ञो गानकुशलो गानतत्त्वविवेचकः॥४७॥
गानश्लाघी गानरसो गानज्ञानपरायणः।
गानागमज्ञो गानाङ्गो गानप्रवणचेतनः॥४८॥
गानकृद्गानचतुरो गानविद्याविशारदः।
गानध्येयो गानगम्यो गानध्यानपरायणः॥४९॥
गानभूर्गानशीलश्च गानशाली गतश्रमः।
गानविज्ञानसम्पन्नो गानश्रवणलालसः॥५०॥
गानयत्तो गानमयो गानप्रणयवान् सदा।
गानध्याता गानबुद्धिर्गानोत्सुकमनाः पुनः॥५१॥
गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वलः।
गानङ्गज्ञानवान् गानमानवान् गानपेशलः॥५२॥
गानवत्प्रणयो गानसमुद्रो गानभूषणः।
गानसिन्धुर्गानपरो गानप्राणो गणाश्रयः॥५३॥
गानैकभूर्गानहृष्टो गानचक्षुर्गाणैकदृक्।
गानमत्तो गानरुचिर्गानविद्गानवित्प्रियः॥५४॥
गानान्तरात्मा गानाढ्यो गानभ्राजत्सभः सदा।
गानमयो गानधरो गानविद्याविशोधकः॥५५॥
गानाहितघ्रो गानेन्द्रो गानलीनो गतिप्रियः।
गानाधीशो गानलयो गानाधारो गतीश्वरः॥५६॥
गानवन्मानदो गानभूतिर्गानैकभूतिमान्।
गानतानततो गानतानदानविमोहितः॥५७॥
गुरुर्गुरुदरश्रोणिर्गुरुतत्त्वार्थदर्शनः।
गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रियः॥५८॥
गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभः।
गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्मुखः॥५९॥
गुरुविद्यो गुरुप्राणो गुरुबाहुबलोच्छ्रयः।
गुरुदैत्यप्राणहरो गुरुदैत्यापहारकः॥६०॥
गुरुगर्वहरो गुह्यप्रवरो गुरुदर्पहा।
गुरुगौरवदायी च गुरुभीत्यपहारकः॥६१॥
गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथः।
गुरुभालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत्॥६२॥
गुरूरुर्गुरुपीनांसो गुरुप्रणयलालसः।
गुरुमुख्यो गुरुकुलस्थायी गुरुगुणः सदा॥६३॥
गुरुसंशयभेत्ता च गुरुमानप्रदायकः।
गुरुधर्मसदाराध्यो गुरुधर्मनिकेतनः॥६४॥
गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युतिः॥६५॥
गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धरः।
गरिष्ठो गुरुसन्तापशमनो गुरुपूजितः॥६६॥
गुरुधर्मधरो गौरधर्माधारो गदापहः।
गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यमः॥६७॥
गुरुशास्त्रार्थनिलयो गुरुशास्त्रालयः सदा।
गुरुमन्त्रो गुरुशेष्ठो गुरुमन्त्रफलप्रदः॥६८॥
गुरुस्त्रीगमनोद्दामप्रायश्चित्तनिवारकः।
गुरुसंसारसुखदो गुरुसंसारदुःखभित्॥६९॥
गुरुश्लाघापरो गौरभानुखण्डावतंसभृत्।
गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचकः॥७०॥
गुरुकान्तिर्गुरुमयो गुरुशासनपालकः।
गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम्॥७१॥
गुरुविक्रमसञ्चारो गुरुदृग्गुरुविक्रमः।
गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डकः॥७२॥
गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः।
गुरुपुत्रप्रियसखो गुरुपुत्रभयापहः॥७३॥
गुरुपुत्रपरित्राता गुरुपुत्रवरप्रदः।
गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशनः॥७४॥
गुरुपुत्रप्राणदाता गुरुभक्तिपरायणः।
गुरुविज्ञानविभवो गौरभानुवरप्रदः॥७५॥
गौरभानुस्तुतो गौरभानुत्रासापहारकः।
गौरभानुप्रियो गौरभानुर्गौरववर्धनः॥७६॥
गौरभानुपरित्राता गौरभानुसखः सदा।
गौरभानुर्प्रभुर्गौरभानुभीतिप्रणाशनः॥७७॥
गौरीतेजःसमुत्पन्नो गौरीहृदयनन्दनः।
गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत्॥७८॥
गौरो गौरगुणो गौरप्रकाशो गौरभैरवः।
गौरीशनन्दनो गौरीप्रियपुत्रो गदाधरः॥७९॥
गौरीवरप्रदो गौरीप्रणयो गौरसच्छविः।
गौरीगणेश्वरो गौरीप्रवणो गौरभावनः॥८०॥
गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक्।
गौतमो गौतमीनाथो गौतमीप्राणवल्लभः॥८१॥
गौतमाभीष्टवरदो गौतमाभयदायकः।
गौतमप्रणयप्रह्वो गौतमाश्रमदुःखहा॥८२॥
गौतमीतीरसञ्चारी गौतमीतीर्थनायकः।
गौतमापत्परिहारो गौतमाधिविनाशनः॥८३॥
गोपतिर्गोधनो गोपो गोपालप्रियदर्शनः।
गोपालो गोगणाधीशो गोकश्मलनिवर्तकः॥८४॥
गोसहस्रो गोपवरो गोपगोपीसुखावहः।
गोवर्धनो गोपगोपो गोपो गोकुलवर्धनः॥८५॥
गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत्।
गोमी गोकष्टसन्त्राता गोसन्तापनिवर्तकः॥८६॥
गोष्ठो गोष्ठाश्रयो गोष्ठपतिर्गोधनवर्धनः।
गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तकः॥८७॥
गोलोको गोलको गोभृद्गोभर्ता गोसुखावहः।
गोधुग्गोधुग्गणप्रेष्ठो गोदोग्धा गोमयप्रियः॥८८॥
गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापहः।
गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशनः॥८९॥
गोत्रोद्धारपरो गोत्रप्रवरो गोत्रदैवतम्।
गोत्रविख्यातनामा च गोत्री गोत्रप्रपालकः॥९०॥
गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लमः।
गोत्रत्राणकरो गोत्रपतिर्गोत्रेशपूजितः॥९१॥
गोत्रभिद्गोत्रभित्त्राता गोत्रभिद्वरदायकः।
गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदनः॥९२॥
गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्गोत्रपालकः।
गोत्रभिद्गीतचरितो गोत्रभिद्राज्यरक्षकः॥९३॥
गोत्रभिज्जयदायी च गोत्रभित्प्रणयः सदा।
गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायकः॥९४॥
गोत्रभिद्गोपनपरो गोत्रभित् सैन्यनायकः।
गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः॥९५॥
ग्रन्थज्ञो ग्रन्थकृद्ग्रन्थग्रन्थिभिद्ग्रन्थविघ्नहा।
ग्रन्थादिर्ग्रन्थसञ्चारो ग्रन्थश्रवणलोलुपः॥९६॥
ग्रन्थादीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित्।
ग्रन्थसंशयसञ्छेदी ग्रन्थवक्ता ग्रहाग्रणीः॥९७॥
ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजितः।
ग्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक्॥९८॥
ग्रन्थदृग्ग्रन्थविज्ञानो ग्रन्थसन्दर्भषोधकः।
ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायणः॥९९॥
ग्रन्थपारायणपरो ग्रन्थसन्देहभञ्जकः।
ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दितः सदा॥१००॥
ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायकः।
ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः॥१०१॥
ग्रन्थपारङ्गमो ग्रन्थगुणविद्ग्रन्थविग्रहः।
ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रगः॥१०२॥
ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालसः।
ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रयः॥१०३॥
ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारकः।
ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारकः॥१०४॥
ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्परः।
गीतं गीतगुणो गीतकीर्तिर्गीतविशारदः॥१०५॥
गीतस्फीतयशा गीतप्रणयो गीतचञ्चुरः।
गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृहः॥१०६॥
गीताश्रयो गीतमयो गीततत्त्वार्थकोविदः।
गीतसंशयसञ्छेत्ता गीतसङ्गीतशासनः॥१०७॥
गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रयः।
गीतासारोऽथ गीताकृद्गीताकृद्विघ्ननाशनः॥१०८॥
गीताशक्तो गीतलीनो गीताविगतसञ्ज्वरः।
गीतैकदृग्गीतभूतिर्गीतप्रीतो गतालसः॥१०९॥
गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित्।
गीतागीतविवेकज्ञो गीताप्रवणचेतनः॥११०॥
गतभीर्गतविद्वेषो गतसंसारबन्धनः।
गतमायो गतत्रासो गतदुःखो गतज्वरः॥१११॥
गतासुहृद्गतज्ञानो गतदुष्टाशयो गतः।
गतार्तिर्गतसङ्कल्पो गतदुष्टविचेष्टितः॥११२॥
गताहङ्कारसञ्चारो गतदर्पो गताहितः।
गतविघ्नो गतभयो गतागतनिवारकः॥११३॥
गतव्यथो गतापायो गतदोषो गतेः परः।
गतसर्वविकारोऽथ गतगञ्जितकुञ्जरः॥११४॥
गतकम्पितभूपृष्ठो गतरुग्गतकल्मषः।
गतदैन्यो गतस्तैन्यो गतमानो गतश्रमः॥११५॥
गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रमः।
गताभावो गतभवो गततत्त्वार्थसंशयः॥११६॥
गयासुरशिरश्छेत्ता गयासुरवरप्रदः।
गयावासो गयानाथो गयावासिनमस्कृतः॥११७॥
गयातीर्थफलाध्यक्षो गयायात्राफलप्रदः।
गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत्॥११८॥
गयावासिस्तुतो गयान्मधुव्रतलसत्कटः।
गायको गायकवरो गायकेष्टफलप्रदः॥११९॥
गायकप्रणयी गाता गायकाभयदायकः।
गायकप्रवणस्वान्तो गायकः प्रथमः सदा॥१२०॥
गायकोद्गीतसम्प्रीतो गायकोत्कटविघ्नहा।
गानगेयो गानकेशो गायकान्तरसञ्चरः॥१२१॥
गायकप्रियदः शश्वद्गायकाधीनविग्रहः।
गेयो गेयगुणो गेयचरितो गेयतत्त्ववित्॥१२२॥
गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचकः।
गाढानुरागो गाढाङ्गो गाढागङ्गाजलोऽन्वहम्॥१२३॥
गाढावगाढजलधिर्गाढप्रज्ञो गतामयः।
गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्परः॥१२४॥
गाढश्लेषरसाभिज्ञो गाढनिर्वृतिसाधकः।
गङ्गाधरेष्टवरदो गङ्गाधरभयापहः॥१२५॥
गङ्गाधरगुरुर्गङ्गाधरध्यातपदः सदा।
गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मयः॥१२६॥
गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दरः।
गङ्गाजलरसास्वादचतुरो गाङ्गतीरयः॥१२७॥
गङ्गाजलप्रणयवान् गङ्गातीरविहारकृत्।
गङ्गाप्रियो गङ्गाजलावगाहनपरः सदा॥१२८॥
गन्धमादनसंवासो गन्धमादनकेलिकृत्।
गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रतः॥१२९॥
गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत् सदा।
गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्धनः॥१३०॥
गकारबीजनिलयो गकारो गर्विगर्वनुत्।
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः॥१३१॥
गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम्।
गन्धर्वगर्वसञ्छेत्ता गन्धर्ववरदर्पहा॥१३२॥
गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः।
गन्धर्वार्चितपादाब्जो गन्धर्वभयहारकः॥१३३॥
गन्धर्वाभयदः शश्वद्गन्धर्वप्रतिपालकः।
गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुकः॥१३४॥
गन्धर्वगानश्रवणप्रणयी गर्वभञ्जनः।
गन्धर्वत्राणसन्नद्धो गन्धर्वसमरक्षमः॥१३५॥
गन्धर्वस्त्रीभिराराध्यो गानं गानपटुः सदा।
गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा॥१३६॥
गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृतः।
गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यमः॥१३७॥
गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः।
गच्छगीतगुणो गच्छमर्यादाप्रतिपालकः॥१३८॥
गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरुः।
गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रदः॥१३९॥
गीर्वाणगीतचरितो गीर्वाणगणसेवितः।
गीर्वाणवरदाता च गीर्वाणभयनाशकृत्॥१४०॥
गीर्वाणगुणसंवीतो गीर्वाणारातिसूदनः।
गीर्वाणधाम गीर्वाणगोप्ता गीर्वाणगर्वहृत्॥१४१॥
गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायकः।
गीर्वाणशरणं गीतनामा गीर्वाणसुन्दरः॥१४२॥
गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षकः।
गुहेहापूरको गन्धमत्तो गीर्वाणपुष्टिदः॥१४३॥
गीर्वाणप्रयुतत्राता गीतगोत्रो गताहितः।
गीर्वाणसेवितपदो गीर्वाणप्रथितो गलत्॥१४४॥
गीर्वाणगोत्रप्रवरो गीर्वाणफलदायकः।
गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित्॥१४५॥
गीर्वाणागमसम्पत्तिर्गीर्वाणव्यसनापहः।
गीर्वाणप्रणयो गीतग्रहणोत्सुकमानसः॥१४६॥
गीर्वाणभ्रमसम्भेत्ता गीर्वाणगुरुपूजितः।
ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशनः॥१४७॥
ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम्।
ग्रहकृद्ग्रहभर्ता च ग्रहेशानो ग्रहेश्वरः॥१४८॥
ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कटः।
ग्रहगीतगुणो ग्रन्थप्रणेता ग्रहवन्दितः॥१४९॥
गवी गवीश्वरो गर्वी गर्विष्ठो गर्विगर्वहा।
गवाम्प्रियो गवान्नाथो गवीशानो गवाम्पती॥१५०॥
गव्यप्रियो गवाङ्गोप्ता गविसम्पत्तिसाधकः।
गविरक्षणसन्नद्धो गवाम्भयहरः क्षणात्॥१५१॥
गविगर्वहरो गोदो गोप्रदो गोजयप्रदः।
गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रतः॥१५२॥
गण्डस्थललसद्दानमिलन्मत्तालिमण्डितः।
गुडो गुडप्रियो गुण्डगलद्दानो गुडाशनः॥१५३॥
गुडाकेशो गुडाकेशसहायो गुडलड्डुभुक्।
गुडभुग्गुडभुग्गणयो गुडाकेशवरप्रदः॥१५४॥
गुडाकेशार्चितपदो गुडाकेशसखः सदा।
गदाधरार्चितपदो गदाधरवरप्रदः॥१५५॥
गदायुधो गदापाणिर्गदायुद्धविशारदः।
गदहा गददर्पघ्नो गदगर्वप्रणाशनः॥१५६॥
गदग्रस्तपरित्राता गदाडम्बरखण्डकः।
गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशयः॥१५७॥
गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक्।
गीर्गीष्पतिर्गिरीशानो गीर्देवीगीतसद्गुणः॥१५८॥
गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्प्रियङ्करः।
गीर्भूमिर्गीरसन्नोऽथ गीःप्रसन्नो गिरीश्वरः॥१५९॥
गिरीशजो गिरौशायी गिरिराजसुखावहः।
गिरिराजार्चितपदो गिरिराजनमस्कृतः॥१६०॥
गिरिराजगुहाविष्टो गिरिराजाभयप्रदः।
गिरिराजेष्टवरदो गिरिराजप्रपालकः॥१६१॥
गिरिराजसुतासूनुर्गिरिराजजयप्रदः।
गिरिव्रजवनस्थायी गिरिव्रजचरः सदा॥१६२॥
गर्गो गर्गप्रियो गर्गदेहो गर्गनमस्कृतः।
गर्गभीतिहरो गर्गवरदो गर्गसंस्तुतः॥१६३॥
गर्गगीतप्रसन्नात्मा गर्गानन्दकरः सदा।
गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जकः॥१६४॥
गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः।
गर्गग्लानिहरो गर्गभ्रमहृद्गर्गसङ्गतः॥१६५॥
गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजनः।
गम्भीरो गणितप्रज्ञो गणितागमसारवित्॥१६६॥
गणको गणकश्लाघ्यो गणकप्रणयोत्सुकः।
गणकप्रवणस्वान्तो गणितो गणितागमः॥१६७॥
गद्यं गद्यमयो गद्यपद्यविद्याविशारदः।
गललग्नमहानागो गलदर्चिर्गलन्मदः॥१६८॥
गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रदः।
गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः॥१६९॥
गम्भीरगुणसम्पन्नो गम्भीरगतिशोभनः।
गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः॥१७०॥
गर्भागमनसन्नाशो गर्भदो गर्भशोकनुत्।
गर्भत्राता गर्भगोप्ता गर्भपुष्टिकरः सदा॥१७१॥
गर्भाश्रयो गर्भमयो गर्भामयनिवारकः।
गर्भाधारो गर्भधरो गर्भसन्तोषसाधकः॥१७२॥
गर्भगौरवसन्धानसन्धानं गर्भवर्गहृत्।
गरीयान् गर्वनुद्गर्वमर्दी गरदमर्दकः॥१७३॥
गरसन्तापशमनो गुरुराज्यसुखप्रदः।
फलश्रुतिः
नाम्नां सहस्रमुदितं महद्गणपतेरिदम्॥१७४॥
गकारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः।
य इदं प्रयतः प्रातस्त्रिसन्ध्यं वा पठेन्नरः॥१७५॥
वाञ्छितं समवाप्नोति नात्र कार्या विचारणा।
पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम्॥१७६॥
विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः।
भूर्जत्वचि समालिख्य कुङ्कुमेन समाहितः॥१७७॥
चतुर्थां भौमवारो च चन्द्रसूर्योपरागके।
पूजयित्वा गणधीशं यथोक्तविधिना पुरा॥१७८॥
पूजयेद्यो यथाशक्त्या जुहुयाच्च शमीदलैः।
गुरुं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम्॥१७९॥
धारयेद्यः प्रयत्नेन स साक्षाद्गणनायकः।
सुराश्चासुरवर्याश्च पिशाचाः किन्नरोरगः॥१८०॥
प्रणमन्ति सदा तं वै दुष्ट्वा विस्मितमानसाः।
राजा सपदि वश्यः स्यात् कामिन्यस्तद्वशो स्थिराः॥१८१॥
तस्य वंशो स्थिरा लक्ष्मीः कदाऽपि न विमुञ्चति।
निष्कामो यः पठेदेतद्गणेश्वरपरायणः॥१८२॥
स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात्।
इदं ते कीर्तितं नाम्नां सहस्रं देवि पावनम्॥१८३॥
न देयं कृपणायाथ शठाय गुरुविद्विषे।
दत्त्वा च भ्रंशमाप्नोति देवतायाः प्रकोपतः॥१८४॥
इति श्रुत्वा महादेवी तदा विस्मितमानसा।
पूजयामास विधिवद्गणेश्वरपदद्वयम्॥१८५॥
॥इति श्री-रुद्रयामले महागुप्तसारे शिवपार्वतीसंवादे गकारादि श्री-गणपतिसहस्रनामस्तोत्रं सम्पूर्णम्॥