विराधकृतं रामस्तोत्रम्

विराध उवाच

श्रीराम राजीवदलायताक्ष
विद्याधरोऽहं विमलप्रकाशः।
दुर्वाससाकारणकोपमूर्तिना
शप्तः पुरा सोऽद्य विमोचितस्त्वया॥३८॥
इतः परं त्वच्चरणारविन्दयोः
स्मृतिः सदा मेऽस्तु भवोपशान्तये।
त्वन्नामसङ्कीर्तनमेव वाणी
करोतु मे कर्णपुटं त्वदीयम्॥३९॥
कथामृतं पातु करद्वयं ते
पादारविन्दार्चनमेव कुर्यात्।
शिरश्च ते पादयुगप्रणामं
करोतु नित्यं भवदीयमेवम्॥४०॥
नमस्तुभ्यं भगवते विशुद्धज्ञानमूर्तये।
आत्मारामाय रामाय सीतारामाय वेधसे॥४१॥
प्रपन्नं पाहि मां राम यास्यामि त्वदनुज्ञया।
देवलोकं रघुश्रेष्ठ माया मां मा वृणोतु ते॥४२॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे
प्रथमे सर्गे विराधकृतं श्री-रामस्तोत्रं सम्पूर्णम्॥