विभीषणकृतं रामस्तोत्रम्

श्री-महादेव उवाच

विभीषणो महाभागश्चतुर्भिर्मन्त्रिभिः सह।
आगत्य गगने रामसम्मुखे समवस्थितः॥१॥
उच्चैरुवाच भोः स्वामिन् राम राजीवलोचन।
रावणस्यानुजोऽहं ते दारहर्तुर्विभीषणः॥२॥
नाम्ना भ्रात्रा निरस्तोऽहं त्वामेव शरणं गतः।
हितमुक्तं मया देव तस्य चाविदितात्मनः॥३॥
सीतां रामाय वैदेहीं प्रेषयेति पुनः पुनः।
उक्तोऽपि न शृणोत्येव कालपाशवशं गतः॥४॥
हन्तुं मां खड्गमादाय प्राद्रवद्राक्षसाधमः।
ततोऽचिरेण सचिवैश्चतुर्भिः सहितो भयात्॥५॥
त्वामेव भवमोक्षाय मुमुक्षुः शरणं गतः।
विभीषणवचः श्रुत्वा सुग्रीवो वाक्यमब्रवीत्॥६॥
विश्वासार्हो न ते राम मायावी राक्षसाधमः।
सीताहर्तुर्विशेषेण रावणस्यानुजो बली॥७॥
मन्त्रिभिः सायुधैरस्मान् विवरे निहनिष्यति।
तदाज्ञापय मे देव वानरैर्हन्यतामयम्॥८॥
ममैवं भाति मे राम बुद्ध्या किं निश्चितं वद।
श्रुत्वा सुग्रीववचनं रामः सस्मितमब्रवीत्॥९॥
यदीच्छामि कपिश्रेष्ठ लोकान् सर्वान् सहेश्वरान्।
निमिषार्धेन संहन्यां सृजामि निमिषार्धतः॥१०॥
अतो मयाऽभयं दत्तं शीघ्रमानय राक्षसम्॥११॥
सकृदेव प्रपन्नाय तवास्मीति च याचते।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम॥१२॥
रामस्य वचनं श्रुत्वा सुग्रीवो हृष्टमानसः।
विभीषणमथानाय्य दर्शयामास राघवम्॥१३॥
विभीषणस्तु साष्टाङ्गं प्रणिपत्य रघूत्तमम्।
हर्षगद्गदया वाचा भक्त्या च परयान्वितः॥१४॥
रामं श्यामं विशालाक्षं प्रसन्नमुखपङ्कजम्।
धनुर्बाणधरं शान्तं लक्ष्मणेन समन्वितम्॥१५॥
कृताञ्जलिपुटो भूत्वा स्तोतुं समुपचक्रमे॥१६॥

विभीषण उवाच

नमस्ते राम राजेन्द्र नमः सीतामनोरम।
नमस्ते चण्डकोदण्ड नमस्ते भक्तवत्सल॥१७॥
नमोऽनन्ताय शान्ताय रामायामिततेजसे।
सुग्रीवमित्राय च ते रघूणां पतये नमः॥१८॥
जगदुत्पत्तिनाशानां कारणाय महात्मने।
त्रैलोक्यगुरवेऽनादिगृहस्थाय नमो नमः॥१९॥
त्वमादिर्जगतां राम त्वमेव स्थितिकारणम्।
त्वमन्ते निधनस्थानं स्वेच्छाचारस्त्वमेव हि॥२०॥
चराचराणां भूतानां बहिरन्तश्च राघव।
व्याप्यव्यापकरूपेण भवान् भाति जगन्मयः॥२१॥
त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः।
गतागतं प्रपद्यन्ते पापपुण्यवशात् सदा॥२२॥
तावत् सत्यं जगद्भाति शुक्तिकारजतं यथा।
यावन्न ज्ञायते ज्ञानं चेतसाऽनन्यगामिना॥२३॥
त्वदज्ञानात् सदा युक्ताः पुत्रदारगृहादिषु।
रमन्ते विषयान् सर्वानन्ते दुःखप्रदान् विभो॥२४॥
त्वमिन्द्रोऽग्निर्यमो रक्षो वरुणश्च तथाऽनिलः।
कुबेरश्च तथा रुद्रस्त्वमेव पुरुषोत्तम॥२५॥
त्वमणोरप्यणीयांश्च स्थूलात् स्थूलतरः प्रभो।
त्वं पिता सर्वलोकानां माता धाता त्वमेव हि॥२६॥
आदिमध्यान्तरहितः परिपूर्णोऽच्युतोऽव्ययः।
त्वं पाणिपादरहितश्चक्षुःश्रोत्रविवर्जितः॥२७॥
श्रोता द्रष्टा ग्रहीता च जवनस्त्वं खरान्तक।
कोशेभ्यो व्यतिरिक्तस्त्वं निर्गुणो निरुपाश्रयः॥२८॥
निर्विकल्पो निर्विकारो निराकारो निरीश्वरः।
षड्भावरहितोऽनादिः पुरुषः प्रकृतेः परः॥२९॥
मायया गृह्यमाणस्त्वं मनुष्य इव भाव्यसे।
ज्ञात्वा त्वां निर्गुणमजं वैष्णवा मोक्षगामिनः॥३०॥
अहं त्वत्पादसद्भक्तिनिःश्रेणीं प्राप्य राघव।
इच्छामि ज्ञानयोगाख्यं सौधमारोढुमीश्वर॥३१॥
नमः सीतापते राम नमः कारुणिकोत्तम।
रावणारे नमस्तुभ्यं त्राहि मां भवसागरात्॥३२॥
ततः प्रसन्नः प्रोवाच श्रीरामो भक्तवत्सलः।
वरं वृणीष्व भद्रं ते वाञ्छितं वरदोऽस्म्यहम्॥३३॥

विभीषण उवाच

धन्योऽस्मि कृतकृत्योऽस्मि कृतकार्योऽस्मि राघव।
त्वत्पाददर्शनादेव विमुक्तोऽस्मि न संशयः॥३४॥
नास्ति मत्सदृशो धन्यो नास्ति मत्सदृशः शुचिः।
नास्ति मत्सदृशो लोके राम त्वन्मूर्तिदर्शनात्॥३५॥
कर्मबन्धविनाशाय त्वज्ज्ञानं भक्तिलक्षणम्।
त्वद्ध्यानं परमार्थं च देहि मे रघुनन्दन॥३६॥
न याचे राम राजेन्द्र सुखं विषयसम्भवम्।
त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे॥३७॥
ओमित्युक्त्वा पुनः प्रीतो रामः प्रोवाच राक्षसम्।
शृणु वक्ष्यामि ते भद्रं रहस्यं मम निश्चितम्॥३८॥
मद्भक्तानां प्रशान्तानां योगिनां वीतरागिणाम्।
हृदये सीतया नित्यं वसाम्यत्र न संशयः॥३९॥
तस्मात् त्वं सर्वदा शान्तः सर्वकल्मषवर्जितः।
मां ध्यात्वा मोक्ष्यसे नित्यं घोरसंसारसागरात्॥४०॥
स्तोत्रमेतत्पठेद्यस्तु लिखेद्यः शृणुयादपि।
मत्प्रीतये ममाभीष्टं सारूप्यं समवाप्नुयात्॥४१॥
इत्युक्त्वा लक्ष्मणं प्राह श्रीरामो भक्तभक्तिमान्।
पश्यत्विदानीमेवैष मम सन्दर्शने फलम्॥४२॥
लङ्काराज्येऽभिषेक्ष्यामि जलमानय सागरात्।
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी॥४३॥
यावन्मम कथा लोके तावद् राज्यं करोत्वसौ।
इत्युक्त्वा लक्ष्मणेनाम्बु ह्यानाय्य कलशेन तम्॥४४॥
लङ्काराज्याधिपत्यार्थमभिषेकं रमापतिः।
कारयामास सचिवैर्लक्ष्मणेन विशेषतः॥४५॥

साधु साध्विति ते सर्वे वानरास्तुष्टुवुर्भृशम्।
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे
तृतीये सर्गे विभीषणकृतं श्री-रामस्तोत्रं सम्पूर्णम्॥