सुग्रीवकृत-रामस्तोत्रम्
सुग्रीव उवाच
देव त्वं जगतां नाथः परमात्मा न संशयः।
मत्पूर्वकृतपुण्यौघैः सङ्गतोऽद्य मया सह॥७६॥
त्वां भजन्ति महात्मानः संसारविनिवृत्तये।
त्वां प्राप्य मोक्षसचिवं प्रार्थयेऽहं कथं भवम्॥७७॥
दाराः पुत्रा धनं राज्यं सर्वं त्वन्मायया कृतम्।
अतोऽहं देवदेवेश नाकाङ्क्षेऽन्यत्प्रसीद मे॥७८॥
आनन्दानुभवं त्वाऽद्य प्राप्तोऽहं भाग्यगौरवात्।
मृदर्थं यतमानेन निधानमिव सत्पते॥७९॥
अनाद्यविद्यासंसिद्धं बन्धनं छिन्नमद्य नः।
यज्ञदानतपःकर्मपूर्तेष्टादिभिरप्यसौ॥८०॥
न जीर्यते पुनर्दार्ढ्यं भजते संसृतिः प्रभो।
त्वत्पाददर्शनात् सद्यो नाशमेति न संशयः॥८१॥
क्षणार्धमपि यच्चित्तं त्वयि तिष्ठत्यचञ्चलम्।
तस्याज्ञानमनर्थानां मूलं नश्यति तत्क्षणात्॥८२॥
तत्तिष्ठतु मनो राम त्वयि नान्यत्र मे सदा॥८३॥
रामरामेति यद्वाणी मधुरं गायति क्षणम्।
स ब्रह्महा सुरापो वा मुच्यते सर्वपातकैः॥८४॥
न काङ्क्षे विजयं राम न च दारसुखादिकम्।
भक्तिमेव सदा काङ्क्षे त्वयि बन्धविमोचनीम्॥८५॥
त्वन्मायाकृतसंसारस्त्वदंशोऽहं रघूत्तम।
स्वपादभक्तिमादिश्य त्राहि मां भवसङ्कटात्॥८६॥
पूर्वं मित्रार्युदासीनास्त्वन्मायावृतचेतसः।
आसन्मेऽद्य भवत्पाददर्शनादेव राघव॥८७॥
सर्वं ब्रह्मैव मे भाति क्व मित्रं क्व च मे रिपुः।
यावत्त्वन्मायया बद्धस्तावद्गुणविशेषता॥८८॥
सा यावदस्ति नानात्वं तावद्भवति नान्यथा।
यावन्नानात्वमज्ञानात्तावत्कालकृतं भयम्॥८९॥
अतोऽविद्यामुपास्ते यः सोऽन्धे तमसि मज्जति।
मायामूलमिदं सर्वं पुत्रदारादिबन्धनम्।
तदुत्सारय मायां त्वं दासीं तव रघूत्तम॥९०॥
त्वत्पादपद्मार्पितचित्तवृत्ति\-
स्त्वन्नामसङ्गीतकथासु वाणी।
त्वद्भक्तसेवानिरतौ करौ मे
त्वदङ्गसङ्गं लभतां मदङ्गम्॥९१॥
त्वन्मूर्तिभक्तान् स्वगुरुं च चक्षुः
पश्यत्वजस्रं स शृणोतु कर्णः।
त्वज्जन्मकर्माणि च पादयुग्मं
व्रजत्वजस्रं तव मन्दिराणि॥९२॥
अङ्गानि ते पादरजोविमिश्र-
तीर्थानि बिभ्रत्वहिशत्रुकेतो।
शिरस्त्वदीयं भवपद्मजाद्यैर्-
जुष्टं पदं राम नमत्वजस्रम्॥९३॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे
प्रथमे सर्गे सुग्रीवकृतं श्री-रामस्तोत्रं सम्पूर्णम्॥