शुकसम्भाषणम्

शुक उवाच

रामो न मानुषः साक्षादादिनारायणः परः।
सीता साक्षाज्जगद्धेतुश्चिच्छक्तिर्जगदात्मिका॥४०॥
ताभ्यामेव समुत्पन्नं जगत्स्थावरजङ्गमम्।
तस्माद् रामश्च सीता च जगतस्तस्थुषश्च तौ॥४१॥
पितरौ पृथिवीपाल तयोर्वैरी कथं भवेत्।
अजानता त्वयाऽऽनीता जगन्मातैव जानकी॥४२॥
क्षणनाशिनि संसारे शरीरे क्षणभङ्गुरे।
पञ्चभूतात्मके राजंश्चतुर्विंशतितत्त्वके॥४३॥
मलमांसास्थिदुर्गन्धभूयिष्ठेऽहङ्कृतालये।
कैवास्था व्यतिरिक्तस्य काये तव जडात्मके॥४४॥
यत्कृते ब्रह्महत्यादिपातकानि कृतानि च।
भोगभोक्ता तु यो देहः स देहोऽत्र पतिष्यति॥४५॥
पुण्यपापे समायातो जीवेन सुखदुःखयोः।
कारणे देहयोगादिनाऽऽत्मनः कुरुतोऽनिशम्॥४६॥
यावद्देहोऽस्मि कर्ताऽस्मीत्यात्माऽहं कुरुतेऽवशः।
अध्यासात्तावदेव स्याज्जन्मनाशादिसम्भवः॥४७॥
तस्मात् त्वं त्यज देहादावभिमानं महामते।
आत्मातिऽनिर्मलः शुद्धो विज्ञानात्माऽचलोऽव्ययः॥४८॥
स्वाज्ञानवशतो बन्धं प्रतिपद्य विमुह्यति।
तस्मात् त्वं शुद्धभावेन ज्ञात्वाऽऽत्मानं सदा स्मर॥४९॥
विरतिं भज सर्वत्र पुत्रदारगृहादिषु।
निरयेष्वपि भोगः स्याच्छ्वशूकरतनावपि॥५०॥
देहं लब्ध्वा विवेकाढ्यं द्विजत्वं च विशेषतः।
तत्रापि भारते वर्षे कर्मभूमौ सुदुर्लभम्॥५१॥
को विद्वानात्मसात्कृत्वा देहं भोगानुगो भवेत्।
अतस्त्वं ब्राह्मणो भूत्वा पौलस्त्यतनयश्च सन्॥५२॥
अज्ञानीव सदा भोगाननुधावसि किं मुधा।
इतः परं वा त्यक्त्वा त्वं सर्वसङ्गं समाश्रय॥५३॥
राममेव परात्मनं भक्तिभावेन सर्वदा।
सीतां समर्प्य रामाय तत्पादानुचरो भव॥५४॥
विमुक्तः सर्वपापेभ्यो विष्णुलोकं प्रयास्यसि।
नो चेद्गमिष्यसेऽधोऽधः पुनरावृत्तिवर्जितः।
अङ्गीकुरुष्व मद्वाक्यं हितमेव वदामि ते॥५५॥
सत्सङ्गतिं कुरु भजस्व हरिं शरण्यं
श्रीराघवं मरकतोपलकान्तिकान्तम्।
सीतासमेतमनिशं धृतचापबाणं
सुग्रीवलक्ष्मणविभीषणसेविताङ्घ्रिम्॥५६॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे
चतुर्थे सर्गे शुकसम्भाषणं सम्पूर्णम्॥