शिवकृत-रामस्तुतिः

श्री-महादेव उवाच

नमोऽस्तु रामाय सशक्तिकाय
नीलोत्पलश्यामलकोमलाय।
किरीटहाराङ्गदभूषणाय
सिंहासनस्थाय महाप्रभाय॥५१॥
त्वमादिमध्यान्तविहीन एकः
सृजस्यवस्यत्सि च लोकजातम्।
स्वमायया तेन न लिप्यसे त्वं
यत् स्वे सुखेऽजस्ररतोऽनवद्यः॥५२॥
लीलां विधत्से गुणसंवृतस्त्वं
प्रपन्नभक्तानुविधानहेतोः।
नानावतारैः सुरमानुषाद्यैः
प्रतीयसे ज्ञानिभिरेव नित्यम्॥५३॥
स्वांशेन लोकं सकलं विधाय तं
बिभर्षि च त्वं तदधः फणीश्वरः।
उपर्यधो भान्वनिलोडुपौषधि-
प्रवर्षरूपोऽवसि नैकधा जगत्॥५४॥
त्वमिह देहभृतां शिखिरूपः
पचसि भुक्तमशेषमजस्रम्।
पवनपञ्चकरूपसहायो
जगदखण्डमनेन बिभर्षि॥५५॥
चन्द्रसूर्यशिखिमध्यगतं यत्
तेज ईश चिदशेषतनूनाम्।
प्राभवत्तनुभृतामिव धैर्यं
शौर्यमायुरखिलं तव सत्त्वम्॥५६॥
त्वं विरिञ्चिशिवविष्णुविभेदात्
कालकर्मशशिसूर्यविभागात्।
वादिनां पृथगिवेश विभासि
ब्रह्म निश्चितमनन्यदिहैकम्॥५७॥
मत्स्यादिरूपेण यथा त्वमेकः
श्रुतौ पुराणेषु च लोकसिद्धः।
तथैव सर्वं सदसद्विभाग-
स्त्वमेव नान्यद् भवतो विभाति॥५८॥
यद्यत् समुत्पन्नमनन्तसृष्टा-
वुत्पत्स्यते यच्च भवच्च यच्च।
न दृश्यते स्थावरजङ्गमादौ
त्वया विनातःपरतः परस्त्वम्॥५९॥
तत्त्वं न जानन्ति परात्मनस्ते
जनाः समस्तास्तव माययातः।
त्वद्भक्तसेवाऽमलमानसानां
विभाति तत्त्वं परमेकमैशम्॥६०॥
ब्रह्मादयस्ते न विदुः स्वरूपं
चिदात्मतत्त्वं बहिरर्थभावाः।
ततो बुधस्त्वामिदमेव रूपं
भक्त्या भजन्मुक्तिमुपैत्यदुःखः॥६१॥
अहं भवन्नाम गृणन् कृतार्थो
वसामि काश्यामनिशं भवान्या।
मुमूर्षमाणस्य विमुक्तयेऽहं
दिशामि मन्त्रं तव राम नाम॥६२॥
इमं स्तवं नित्यमनन्यभक्त्या
शृण्वन्ति गायन्ति लिखन्ति ये वै।
ते सर्वसौख्यं परमं च लब्ध्वा
भवत्पदं यान्तु भवत्प्रसादात्॥६३॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे पञ्चदशे सर्गे
शिवकृत-रामस्तुतिः सम्पूर्णा॥