रावणसनत्कुमार-संवाद-कथा

अगस्त्य उवाच

अथान्यां सम्प्रवक्ष्यामि कथां राम त्वदाश्रयाम्।
सीता हृता यदर्थं सा रावणेन दुरात्मना॥२९॥
पुरा कृतयुगे राम प्रजापतिसुतं विभुम्।
सनत्कुमारमेकान्ते समासीनं दशाननः।
विनयावनतो भूत्वा ह्यभिवाद्येदमब्रवीत्॥३०॥
को न्वस्मिन् प्रवरो लोके देवानां बलवत्तरः।
देवाश्च यं समाश्रित्य युद्धे शत्रुं जयन्ति हि॥३१॥
कं यजन्ति द्विजा नित्यं कं ध्यायन्ति च योगिनः।
एतन्मे शंस भगवन् प्रश्नं प्रश्नविदां वर॥३२॥
ज्ञात्वा तस्य हृदिस्थं यत्तदशेषेण योगदृक्।
दशाननमुवाचेदं शृणु वक्ष्यामि पुत्रक॥३३॥
भर्ता यो जगतां नित्यं यस्य जन्मादिकं न हि।
सुरासुरैर्नुतो नित्यं हरिर्नारायणोऽव्ययः॥३४॥
यन्नाभिपङ्कजाज्जातो ब्रह्मा विश्वसृजां पतिः।
सृष्टं येनैव सकलं जगत्स्थावरजङ्गमम्॥३५॥
तं समाश्रित्य विबुधा जयन्ति समरे रिपून्।
योगिनो ध्यानयोगेन तमेवानुजपन्ति हि॥३६॥
महर्षेर्वचनं श्रुत्वा प्रत्युवाच दशाननः।
दैत्यदानवरक्षांसि विष्णुना निहतानि च॥३७॥
कां वा गतिं प्रपद्यन्ते प्रेत्य ते मुनिपुङ्गव।
तमुवाच मुनिश्रेष्ठो रावणं राक्षसाधिपम्॥३८॥
दैवतैर्निहता नित्यं गत्वा स्वर्गमनुत्तमम्।
भोगक्षये पुनस्तस्माद् भ्रष्टा भूमौ भवन्ति ते॥३९॥
पूर्वार्जितैः पुण्यपापैर्म्रियन्ते चोद्भवन्ति च।
विष्णुना ये हतास्ते तु प्राप्नुवन्ति हरेर्गतिम्॥४०॥
श्रुत्वा मुनिमुखात् सर्वं रावणो हृष्टमानसः।
योत्स्येऽहं हरिणा सार्धमिति चिन्तापरोऽभवत्॥४१॥
मनःस्थितं परिज्ञाय रावणस्य महामुनिः।
उवाच वत्स तेऽभीष्टं भविष्यति न संशयः॥४२॥
कञ्चित्कालं प्रतीक्षस्व सुखी भव दशानन।
एवमुक्त्वा महाबाहो मुनिः पुनरुवाच तम्॥४३॥
तस्य स्वरूपं वक्ष्यामि ह्यरूपस्यापि मायिनः।
स्थावरेषु च सर्वेषु नदेषु च नदीषु च॥४४॥
ओङ्कारश्चैव सत्यं च सावित्री पृथिवी च सः।
समस्तजगदाधारः शेषरूपधरो हि सः॥४५॥
सर्वे देवाः समुद्राश्च कालः सूर्यश्च चन्द्रमाः।
सूर्योदयो दिवारात्री यमश्चैव तथाऽनिलः॥४६॥
अग्निरिन्द्रस्तथा मृत्युः पर्जन्यो वसवस्तथा।
ब्रह्मा रुद्रादयश्चैव ये चान्ये देवदानवाः॥४७॥
विद्योतते ज्वलत्येष पाति चात्तीति विश्वकृत्।
क्रीडां करोत्यव्ययात्मा सोऽयं विष्णुः सनातनः॥४८॥
तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्।
नीलोत्पलदलश्यामो विद्युद्वर्णाम्बरावृतः॥४९॥
शुद्धजाम्बूनदप्रख्यां श्रियं वामाङ्कसंस्थिताम्।
सदानपायिनीं देवीं पश्यन्नालिङ्ग्य तिष्ठति॥५०॥
द्रष्टुं न शक्यते कैश्चिद् देवदानवपन्नगैः।
यस्य प्रसादं कुरुते स चैनं द्रष्टुमर्हति॥५१॥
न च यज्ञतपोभिर्वा न दानाध्ययनादिभिः।
शक्यते भगवान् द्रष्टुमुपायैरितरैरपि॥५२॥
तद्भक्तैस्तद्गतप्राणैस्तच्चित्तैर्धूतकल्मषैः।
शक्यते भगवान् विष्णुर्वेदान्तामलदृष्टिभिः॥५३॥
अथवा द्रष्टुमिच्छा ते शृणु त्वं परमेश्वरम्।
त्रेतायुगे स देवेशो भविता नृपविग्रहः॥५४॥
हितार्थं देवमर्त्यानामिक्ष्वाकूणां कुले हरिः।
रामो दाशरथिर्भूत्वा महासत्त्वपराक्रमः॥५५॥
पितुर्नियोगात् स भ्रात्रा भार्यया दण्डके वने।
विचरिष्यति धर्मात्मा जगन्मात्रा स्वमायया॥५६॥
एवं ते सर्वमाख्यातं मया रावण विस्तरात्।
भजस्व भक्तिभावेन सदा रामं श्रिया युतम्॥५७॥

अगस्त्य उवाच

एवं श्रुत्वाऽसुराध्यक्षो ध्यात्वा किञ्चिद् विचार्य च।
त्वया सह विरोधेप्सुर्मुमुदे रावणो महान्॥५८॥
युद्धार्थी सर्वतो लोकान् पर्यटन् समवस्थितः।
एतदर्थं महाराज रावणोऽतीव बुद्धिमान्।
हृतवान् जानकीं देवीं त्वयाऽऽत्मवधकाङ्क्षया॥५९॥
इमां कथां यः शृणुयात्पठेद् वा
संश्रावयेद्वा श्रवणार्थिनां सदा।
आयुष्यमारोग्यमनन्तसौख्यं
प्राप्नोति लाभं धनमक्षयं च॥६०॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे तृतीये सर्गे
रावणसनत्कुमार-संवाद-कथा सम्पूर्णा॥