रामावताररहस्यम्

श्री-महादेव उवाच

सर्वज्ञो नित्यलक्ष्मीको विज्ञानात्माऽपि राघवः॥१६॥

सीतामनुशुशोचार्त्तः प्राकृतः प्राकृतामिव।
बुद्ध्यादिसाक्षिणस्तस्य मायाकार्यातिवर्तिनः॥१८॥
रागादिरहितस्यास्य तत्कार्यं कथमुद्भवेत्।
ब्रह्मणोक्तमृतं कर्तुं राज्ञो दशरथस्य हि॥१९॥
तपसः फलदानाय जातो मानुषवेषधृक्।
मायया मोहिताः सर्वे जना अज्ञानसंयुताः॥२०॥
कथमेषां भवेन्मोक्ष इति विष्णुर्विचिन्तयन्।
कथां प्रथयितुं लोके सर्वलोकमलापहाम्॥२१॥
रामायणाभिधां रामो भूत्वा मानुषचेष्टकः।
क्रोधं मोहं च कामं च व्यवहारार्थसिद्धये॥२२॥
तत् तत्कालोचितं गृह्णन् मोहयत्यवशाः प्रजाः।
अनुरक्त इवाशेषगुणेषु गुणवर्जितः॥२३॥
विज्ञानमूर्तिर्विज्ञानशक्तिः साक्ष्यगुणान्वितः।
अतः कामादिभिर्नित्यमविलिप्तो यथा नभः॥२४॥
विन्दन्ति मुनयः केचिज्जानन्ति जनकादयः।
तद्भक्ता निर्मलात्मानः सम्यग्जानन्ति नित्यदा।
भक्तचित्तानुसारेण जायते भगवानजः॥२५॥

॥इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
कीष्किन्धाकाण्डे पञ्चमे सर्गे रामावताररहस्यं सम्पूर्णम्॥