रामकथाकथनम्
विलोक्य हनुमान् किञ्चिद् विचार्यैतदभाषत।
शनैः शनैः सूक्ष्मरूपो जानक्याः श्रोत्रगं वचः॥१२॥
इक्ष्वाकुवंशसम्भूतो राजा दशरथो महान्।
अयोध्याधिपतिस्तस्य चत्वारो लोकविश्रुताः॥१३॥
पुत्रा देवसमाः सर्वे लक्षणैरुपलक्षिताः।
रामश्च लक्ष्मणश्चैव भरतश्चैव शत्रुहा॥१४॥
ज्येष्ठो रामः पितुर्वाक्याद् दण्डकारण्यमागतः।
लक्ष्मणेन सह भ्रात्रा सीतया भार्यया सह॥१५॥
उवास गौतमीतीरे पञ्चवट्यां महामनाः।
तत्र नीता महाभागा सीता जनकनन्दिनी॥१६॥
रहिते रामचन्द्रेण रावणेन दुरात्मना।
ततो रामोऽतिदुःखार्तो मार्गमाणोऽथ जानकीम्॥१७॥
जटायुषं पक्षिराजमपश्यत् पतितं भुवि।
तस्मै दत्त्वा दिवं शीघ्रमृष्यमूकमुपागमत्॥१८॥
सुग्रीवेण कृता मैत्री रामस्य विदितात्मनः।
तद्भार्याहारिणं हत्वा वालिनं रघुनन्दनः॥१९॥
राज्येऽभिषिच्य सुग्रीवं मित्रकार्यं चकार सः।
सुग्रीवस्तु समानाय्य वानरान् वानरप्रभुः॥२०॥
प्रेषयामास परितो वानरान् परिमार्गणे।
सीतायास्तत्र चैकोऽहं सुग्रीवसचिवो हरिः॥२१॥
सम्पातिवचनाच्छीघ्रमुल्लङ्घ्य शतयोजनम्।
समुद्रं नगरीं लङ्कां विचिन्वन् जानकीं शुभाम्॥२२॥
शनैरशोकवनिकां विचिन्वन् शिंशपातरुम्।
अद्राक्षं जानकीमत्र शोचन्तीं दुःखसम्प्लुताम्॥२३॥
रामस्य महिषीं देवीं कृतकृत्योऽहमागतः।
इत्युक्त्वोपररामाथ मारुतिर्बुद्धिमत्तरः॥२४॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे
तृतीये सर्गे हनूमता रामकथाकथनं सम्पूर्णम्॥