राम-सम्भाषणम्

श्री-राम उवाच

यदिदं दृश्यते सर्वं राज्यं देहादिकं च यत्।
यदि सत्यं भवेत् तत्र आयासः सफलश्च ते॥१९॥
भोगा मेघवितानस्थविद्युल्लेखेव चञ्चलाः।
आयुरप्यग्निसन्तप्तलोहस्थजलबिन्दुवत्॥२०॥
यथा व्यालगलस्थोऽपि भेको दंशानपेक्षते।
तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान्॥२१॥
करोति दुःखेन हि कर्मतन्त्रं
शरीरभोगार्थमहर्निशं नरः।
देहस्तु भिन्नः पुरुषात् समीक्ष्यते
को वात्र भोगः पुरुषेण भुज्यते॥२२॥
पितृमातृसुतभ्रातृदारबन्ध्वादिसङ्गमः।
प्रपायामिव जन्तूनां नद्यां काष्ठौघवच्चलः॥२३॥
छायेव लक्ष्मीश्चपला प्रतीता
तारुण्यमम्बूर्मिवदध्रुवं च।
स्वप्नोपमं स्त्रीसुखमायुरल्पं
तथाऽपि जन्तोरभिमान एषः॥२४॥
संसृतिः स्वप्नसदृशी सदा रोगादिसङ्कुला।
गन्धर्वनगरप्रख्या मूढस्तामनुवर्तते॥२५॥
आयुष्यं क्षीयते यस्मादादित्यस्य गतागतैः।
दृष्ट्वाऽन्येषां जरामृत्यू कथञ्चिन्नैव बुध्यते॥२६॥
स एव दिवसः सैव रात्रिरित्येव मूढधीः।
भोगाननुपतत्येव कालवेगं न पश्यति॥२७॥
प्रतिक्षणं क्षरत्येतदायुरामघटाम्बुवत्।
सपत्ना इव रोगौघाः शरीरं प्रहरन्त्यहो॥२८॥
जरा व्याघ्रीव पुरतस्तर्जयन्त्यवतिष्ठते।
मृत्युः सहैव यात्येष समयं सम्प्रतीक्षते॥२९॥
देहेऽहम्भावमापन्नो राजाहं लोकविश्रुतः।
इत्यस्मिन्मनुते जन्तुः कृमिविड्भस्मसंज्ञिते॥३०॥
त्वगस्थिमान्सविण्मूत्ररेतोरक्तादिसंयुतः।
विकारी परिणामी च देह आत्मा कथं वद॥३१॥
यमास्थाय भवान्ल्लोकं दग्धुमिच्छति लक्ष्मण।
देहाभिमानिनः सर्वे दोषाः प्रादुर्भवन्ति हि॥३२॥
देहोऽहमिति या बुद्धिरविद्या सा प्रकीर्तिता।
नाहं देहश्चिदात्मेति बुद्धिर्विद्येति भण्यते॥३३॥
अविद्या संसृतेर्हेतुर्विद्या तस्या निवर्तिका।
तस्माद् यत्नः सदा कार्यो विद्याभ्यासे मुमुक्षुभिः।
कामक्रोधादयस्तत्र शत्रवः शत्रुसूदन॥३४॥
तत्रापि क्रोध एवालं मोक्षविघ्नाय सर्वदा।
येनाविष्टः पुमान् हन्ति पितृभ्रातृसुहृत्सखीन्॥३५॥
क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम्।
धर्मक्षयकरः क्रोधस्तस्मात्क्रोधं परित्यज॥३६॥
क्रोध एष महान् शत्रुस्तृष्णा वैतरणी नदी।
सन्तोषो नन्दनवनं शान्तिरेव हि कामधुक्॥३७॥
तस्माच्छान्तिं भजस्वाद्य शत्रुरेवं भवेन्न ते।
देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणः॥३८॥
आत्मा शुद्धः स्वयञ्ज्योतिरविकारी निराकृतिः।
यावद्देहेन्द्रियप्राणैर्भिन्नत्वं नात्मनो विदुः॥३९॥
तावत् संसारदुःखौघैः पीड्यन्ते मृत्युसंयुताः।
तस्मात् त्वं सर्वदा भिन्नमात्मानं हृदि भावय॥४०॥
बुद्ध्यादिभ्यो बहिः सर्वमनुवर्तस्व मा खिदः।
भुञ्जन् प्रारब्धमखिलं सुखं वा दुःखमेव वा॥४१॥
प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यसे।
बाह्ये सर्वत्र कर्तृत्वमावहन्नपि राघव॥४२॥
अन्तःशुद्धस्वभावस्त्वं लिप्यसे न च कर्मभिः।
एतन्मयोदितं कृत्स्नं हृदि भावय सर्वदा॥४३॥
संसारदुःखैरखिलैर्बाध्यसे न कदाचन।
त्वमप्यम्ब ममाऽऽदिष्टं हृदि भावय नित्यदा॥४४॥
समागमं प्रतीक्षस्व न दुःखैः पीड्यसे चिरम्।
न सदैकत्र संवासः कर्ममार्गानुवर्तिनाम्॥४५॥
यथा प्रवाहपतितप्लवानां सरितां तथा।
चतुर्दशसमा सङ्ख्या क्षणार्धमिव जायते॥४६॥
अनुमन्यस्व मामम्ब दुःखं सन्त्यज्य दूरतः।
एवं चेत् सुखसंवासो भविष्यति वने मम॥४७॥
इत्युक्त्वा दण्डवन्मातुः पादयोरपतच्चिरम्।
उत्थाप्याङ्के समावेश्य आशीर्भिरभ्यनन्दयत्॥४८॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे
अयोध्याकाण्डे चतुर्थे सर्गे राम-सम्भाषणं सम्पूर्णम्॥