परशुरामकृत-रामस्तोत्रम्
परशुराम उवाच
स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः।
मयि स्थितं तु त्वत्तेजस्त्वयैव पुनराहृतम्॥२९॥
अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो।
ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः॥३०॥
त्वयि जन्मादिषड्भावा न सन्त्यज्ञानसम्भवाः।
निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः॥३१॥
यथा जले फेनजालं धूमो वह्नौ तथा त्वयि।
त्वदाधारा त्वद्विषया माया कार्यं सृजत्यहो॥३२॥
यावन्मायावृता लोकास्तावत्त्वां न विजानते।
अविचारितसिद्धैषाऽविद्या विद्याविरोधिनी॥३३॥
अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता।
चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते॥३४॥
यावद्देहमनःप्राणबुद्ध्यादिष्वभिमानवान्।
तावत्कर्तृत्वभोक्तृत्वसुखदुःखादिभाग्भवेत्॥३५॥
आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति।
अविवेकाद्द्वयं युङ्क्त्वा संसारीति प्रवर्तते॥३६॥
जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा।
जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा॥३७॥
यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति।
तावत् संसारदुःखौघान्न निवर्तेन्नरः सदा॥३८॥
तत् सङ्गलब्धया भक्त्या यदा त्वां समुपासते।
तदा माया शनैर्याति तानवं प्रतिपद्यते॥३९॥
ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते।
वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद् विमुच्यते॥४०॥
तस्मात् त्वद्भक्तिहीनानां कल्पकोटिशतैरपि।
न मुक्तिशङ्का विज्ञानशङ्का नैव सुखं तथा॥४१॥
अतस्त्वत्पादयुगले भक्तिर्मे जन्मजन्मनि।
स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या याभ्यां विनश्यति॥४२॥
लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः।
पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान्॥४३॥
नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन।
नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते॥४४॥
देव यद्यत्कृतं पुण्यं मया लोकजिगीषया।
तत् सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते॥४५॥
ततः प्रसन्नो भगवान् श्रीरामः करुणामयः।
प्रसन्नोऽस्मि तव ब्रह्मन् यत्ते मनसि वर्तते॥४६॥
दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम्।
ततः प्रीतेन मनसा भार्गवो राममब्रवीत्॥४७॥
यदि मेऽनुग्रहो राम तवास्ति मधुसूदन।
त्वद्भक्तसङ्गस्त्वत्पादे दृढा भक्तिः सदास्तु मे॥४८॥
स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा।
त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव॥४९॥
तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम्।
पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात्॥५०॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे
सप्तमे सर्गे श्री-परशुरामकृतं श्री-रामस्तोत्रं सम्पूर्णम्॥