मन्दोदरी-रावण-संवादः

श्री-महादेव उवाच

रावणस्तु ततो भार्यामुवाच परिसान्त्वयन्।
दैवाधीनमिदं भद्रे जीवता किं न दृश्यते।
त्यज शोकं विशालाक्षि ज्ञानमालम्ब्य निश्चितम्॥३६॥
अज्ञानप्रभवः शोकः शोको ज्ञानविनाशकृत्।
अज्ञानप्रभवाहन्धीः शरीरादिष्वनात्मसु॥३७॥
तन्मूलः पुत्रदारादिसम्बन्धः संसृतिस्ततः।
हर्षशोकभयक्रोधलोभमोहस्पृहादयः॥३८॥
अज्ञानप्रभवा ह्येते जन्ममृत्युजरादयः।
आत्मा तु केवलं शुद्धो व्यतिरिक्तो ह्यलेपकः॥३९॥
आनन्दरूपो ज्ञानात्मा सर्वभावविवर्जितः।
न संयोगो वियोगो वा विद्यते केनचित् सतः॥४०॥
एवं ज्ञात्वा स्वमात्मानं त्यज शोकमनिन्दिते।
इदानीमेव गच्छामि हत्वा रामं सलक्ष्मणम्॥४१॥
आगमिष्यामि नो चेन्मां दारयिष्यति सायकैः।
श्रीरामो वज्रकल्पैश्च ततो गच्छामि तत्पदम्॥४२॥
तदा त्वया मे कर्तव्या क्रिया मच्छासनात्प्रिये।
सीतां हत्वा मया सार्धं त्वं प्रवेक्ष्यसि पावकम्॥४३॥
एवं श्रुत्वा वचस्तस्य रावणस्यातिदुःखिता।
उवाच नाथ मे वाक्यं शृणु सत्यं तथा कुरु॥४४॥
शक्यो न राघवो जेतुं त्वया चान्यैः कदाचन।
रामो देववरः साक्षात्प्रधानपुरुषेश्वरः॥४५॥
मत्स्यो भूत्वा पुरा कल्पे मनुं वैवस्वतं प्रभुः।
ररक्ष सकलापद्भ्यो राघवो भक्तवत्सलः॥४६॥
रामः कूर्मोऽभवत्पूर्वं लक्षयोजनविस्तृतः।
समुद्रमथने पृष्ठे दधार कनकाचलम्॥४७॥
हिरण्याक्षोऽतिदुर्वृत्तो हतोऽनेन महात्मना।
क्रोडरूपेण वपुषा क्षोणीमुद्धरता क्वचित्॥४८॥
त्रिलोककण्टकं दैत्यं हिरण्यकशिपुं पुरा।
हतवान्नारसिंहेन वपुषा रघुनन्दनः॥४९॥
विक्रमैस्त्रिभिरेवासौ बलिं बद्ध्वा जगत्त्रयम्।
आक्रम्यादात् सुरेन्द्राय भृत्याय रघुसत्तमः॥५०॥
राक्षसाः क्षत्रियाकारा जाता भूमेर्भरावहाः।
तान् हत्वा बहुशो रामो भुवं जित्वा ह्यदान्मुनेः॥५१॥
स एव साम्प्रतं जातो रघुवंशे परात्परः।
भवदर्थे रघुश्रेष्ठो मानुषत्वमुपागतः॥५२॥
तस्य भार्या किमर्थं वा हृता सीता वनाद् बलात्।
मम पुत्रविनाशार्थं स्वस्यापि निधनाय च॥५३॥
इतः परं वा वैदेहीं प्रेषयस्व रघूत्तमे।
विभीषणाय राज्यं तु दत्त्वा गच्छामहे वनम्॥५४॥
मन्दोदरीवचः श्रुत्वा रावणो वाक्यमब्रवीत्।
कथं भद्रे रणे पुत्रान् भ्रातॄन् राक्षसमण्डलम्॥५५॥
घातयित्वा राघवेण जीवामि वनगोचरः।
रामेण सह योत्स्यामि रामबाणैः सुशीघ्रगैः॥५६॥
विदार्यमाणो यास्यामि तद्विष्णोः परमं पदम्।
जानामि राघवं विष्णुं लक्ष्मीं जानामि जानकीम्।
ज्ञात्वैव जानकी सीता मयाऽऽनीता वनाद् बलात्॥५७॥
रामेण निधनं प्राप्य यास्यामीति परं पदम्।
विमुच्य त्वां तु संसाराद्गमिष्यामि सह प्रिये॥५८॥
परानन्दमयी शुद्धा सेव्यते या मुमुक्षुभिः।
तां गतिं तु गमिष्यामि हतो रामेण संयुगे॥५९॥
प्रक्षाल्य कल्मषाणीह मुक्तिं यास्यामि दुर्लभाम्॥६०॥
क्लेशादिपञ्चकतरङ्गयुतं भ्रमाढ्यं
दारात्मजाप्तधनबन्धुझषाभियुक्तम्।
और्वानलाभनिजरोषमनङ्गजालं
संसारसागरमतीत्य हरिं व्रजामि॥६१॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे दशमे सर्गे मन्दोदरी-रावण-संवादः सम्पूर्णः