लक्ष्मणोपदेशः
श्री-लक्ष्मण उवाच
शोकेन महताऽऽविष्टं सौमित्रिरिदमब्रवीत्।
यं शोचसि त्वं दुःखेन कोऽयं तव विभीषण॥१०॥
त्वं वास्य कतमः सृष्टेः पुरेदानीमतः परम्।
यद्वत्तोयौघपतिताः सिकता यान्ति तद्वशाः॥११॥
संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः।
यथा धानासु वै धाना भवन्ति न भवन्ति च॥१२॥
एवं भूतेषु भूतानि प्रेरितानीशमायया।
त्वं चेमे वयमन्ये च तुल्याः कालवशोद्भवाः॥१३॥
जन्ममृत्यू यदा यस्मात्तदा तस्माद् भविष्यतः।
ईश्वरः सर्वभूतानि भूतैः सृजति हन्त्यजः॥१४॥
आत्मसृष्टैरस्वतन्त्रैर्निरपेक्षोऽपि बालवत्।
देहेन देहिनो जीवा देहाद्देहोऽभिजायते॥१५॥
बीजादेव यथा बीजं देहान्य इव शाश्वतः।
देहिदेहविभागोऽयमविवेककृतः पुरा॥१६॥
नानात्वं जन्म नाशश्च क्षयो वृद्धिः क्रियाफलम्।
द्रष्टुराभान्त्यतद्धर्मा यथाग्नेर्दारुविक्रियाः॥१७॥
त इमे देहसंयोगादात्मना भान्त्यसद्ग्रहात्।
यथा यथा तथा चान्यद्ध्यायतोऽसत्सदाग्रहात्॥१८॥
प्रसुप्तस्यानहम्भावात्तदा भाति न संसृतिः।
जीवतोऽपि तथा तद्वद्विमुक्तस्यानहङ्कृतेः॥१९॥
तस्मान्मायामनोधर्मं जह्यहम्ममताभ्रमम्।
रामभद्रे भगवति मनो धेह्यात्मनीश्वरे॥२०॥
सर्वभूतात्मनि परे मायामानुषरूपिणि।
बाह्येन्द्रियार्थसम्बन्धात्त्याजयित्वा मनः शनैः॥२१॥
तत्र दोषान् दर्शयित्वा रामानन्दे नियोजय।
देहबुद्ध्या भवेद् भ्राता पिता माता सुहृत्प्रियः॥२२॥
विलक्षणं यदा देहाज्जानात्यात्मानमात्मना।
तदा कः कस्य वा बन्धुर्भ्राता माता पिता सुहृत्॥२३॥
मिथ्याज्ञानवशाज्जाता दारागारादयः सदा।
शब्दादयश्च विषया विविधाश्चैव सम्पदः॥२४॥
बलं कोशो भृत्यवर्गो राज्यं भूमिः सुतादयः।
अज्ञानजत्वात् सर्वे ते क्षणसङ्गमभङ्गुराः॥२५॥
अथोत्तिष्ठ हृदा रामं भावयन् भक्तिभावितम्।
अनुवर्तस्व राज्यादि भुञ्जन् प्रारब्धमन्वहम्॥२६॥
भूतं भविष्यदभजन् वर्तमानमथाचरन्।
विहरस्व यथान्यायं भवदोषैर्न लिप्यसे॥२७॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे द्वादशे सर्गे लक्ष्मणोपदेशः सम्पूर्णः