लक्ष्मण-सम्भाषणम्
श्री-महादेव उवाच
सुप्तं रामं समालोक्य गुहः सोऽश्रुपरिप्लुतः।
लक्ष्मणं प्राह विनयाद् भ्रातः पश्यसि राघवम्॥१॥
शयानं कुशपत्रौघसंस्तरे सीतया सह।
यः शेते स्वर्णपर्यङ्के स्वास्तीर्णे भवनोत्तमे॥२॥
कैकेयी रामदुःखस्य कारणं विधिना कृता।
मन्थराबुद्धिमास्थाय कैकेयी पापमाचरत्॥३॥
तच्छ्रुत्वा लक्ष्मणः प्राह सखे शृणु वचो मम।
कः कस्य हेतुर्दुःखस्य कश्च हेतुः सुखस्य च॥४॥
स्वपूर्वार्जितकर्मैव कारणं सुखदुःखयोः॥५॥
सुखस्य दुःखस्य न कोऽपि दाता
परो ददातीति कुबुद्धिरेषा।
अहं करोमीति वृथाभिमानः
स्वकर्मसूत्रग्रथितो हि लोकः॥६॥
सुहृन्मित्रार्युदासीनद्वेष्यमध्यस्थबान्धवाः।
स्वयमेवाचरन् कर्म तथा तत्र विभाव्यते॥७॥
सुखं वा यदि वा दुःखं स्वकर्मवशगो नरः।
यद्यद् यथागतं तत्तद् भुक्त्वा स्वस्थमना भवेत्॥८॥
न मे भोगागमे वाञ्छा न मे भोगविवर्जने।
आगच्छत्वथ मागच्छत्वभोगवशगो भवेत्॥९॥
स्वस्मिन् देशे च काले च यस्माद्वा येन केन वा।
कृतं शुभाशुभं कर्म भोज्यं तत् तत्र नान्यथा॥१०॥
अलं हर्षविषादाभ्यां शुभाशुभफलोदये।
विधात्रा विहितं यद्यत्तदलङ्घ्यं सुरासुरैः॥११॥
सर्वदा सुखदुःखाभ्यां नरः प्रत्यवरुध्यते।
शरीरं पुण्यपापाभ्यामुत्पन्नं सुखदुःखवत्॥१२॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।
द्वयमेतद्धि जन्तूनामलङ्घ्यं दिनरात्रिवत्॥१३॥
सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम्।
द्वयमन्योन्यसंयुक्तं प्रोच्यते जलपङ्कवत्॥१४॥
तस्माद् धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु।
न हृष्यन्ति न मुह्यन्ति समं मायेति भावनात्॥१५॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे
अयोध्याकाण्डे षष्ठे सर्गे लक्ष्मण-सम्भाषणं सम्पूर्णम्॥