कौसल्याकृत-रामस्तोत्रम्

कौसल्योवाच

देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर।
परमात्माऽच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः॥२०॥
वदन्त्यगोचरं वाचां बुद्ध्यादीनामतीन्द्रियम्।
त्वां वेदवादिनः सत्तामात्रं ज्ञानैकविग्रहम्॥२१॥
त्वमेव मायया विश्वं सृजस्यवसि हंसि च।
सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा॥२२॥
करोषीव न कर्ता त्वं गच्छसीव न गच्छसि।
शृणोषि न शृणोषीव पश्यसीव न पश्यसि॥२३॥
अप्राणो ह्यमनाः शुद्ध इत्यादि श्रुतिरब्रवीत्।
समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे॥२४॥
अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम्।
जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः॥२५॥
त्वं ममोदरसम्भूत इति लोकान् विडम्बसे।
भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम॥२६॥
संसारसागरे मग्ना पतिपुत्रधनादिषु।
भ्रमामि मायया तेऽद्य पादमूलमुपागता॥२७॥
देव त्वद्रूपमेतन्मे सदा तिष्ठतु मानसे।
आवृणोतु न मां माया तव विश्वविमोहिनी॥२८॥
उपसंहर विश्वात्मन्नदो रूपमलौकिकम्।
दर्शयस्व महानन्दबालभावं सुकोमलम्।
ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः॥२९॥

श्री-भगवानुवाच

यद्यदिष्टं तवास्त्यम्ब तत्तद्भवतु नान्यथा॥३०॥
अहं तु ब्रह्मणा पूर्वं भूमेर्भारापनुत्तये।
प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः॥३१॥
त्वया दशरथेनाहं तपसाराधितः पुरा।
मत्पुत्रत्वाभिकाङ्क्षिण्या तथा कृतमनिन्दिते॥३२॥
रूपमेतत्त्वया दृष्टं प्राक्तनं तपसः फलम्।
मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम्॥३३॥
संवादमावयोर्यस्तु पठेद् वा शृणुयादपि।
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत्॥३४॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे
तृतीये सर्गे श्री-कौसल्याविरचितं श्री-रामस्तोत्रं सम्पूर्णम्॥